SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ पदस्फोटनिर्णयः। '४०७ इति वादाभ्युपगमस्तुल्य इति भावः। ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत् तुल्यमित्याह-लक्षणादिति* ॥ लक्ष्यते तय॑तेऽनेनेति लक्षणं मनस्तस्मात् । अपिपदं पदपदोत्तरं बोध्यम् । पदेऽपि लक्षणात्तदनहश्चेत्तर्वस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्ग्रहः । आ दर्पणः गमस्तु शाब्दे भानापत्त्यैवेति भावः ॥ पदार्थवदिति सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् ॥ *वाक्यार्थेऽपि । *संसर्गेऽपीत्यर्थः । इदं च बोध्यत्वं शक्तिरित्यभिप्रेत्य ॥ *तग्रहः*-शक्तिग्रहः । लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोग्यर्थपरतया तं व्याचष्टे-*लक्ष्यत इति* ॥ मूले-*अर्थे इति* ॥ निरूपितत्वं सप्तम्यर्थः । तच्छब्दाऽथें शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे-*पदेऽपीत्यादि* ॥ *तदग्रह इति । वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः। __ अयम्भावः-घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थोपस्थित्यादिसमवधाने मनसा तत्संसर्गोपस्थिति नुपपन्ना। परन्तु मानसस्य प्रायः संशयात्मकस्यापि सम्भवात्तन्निश्चयार्थे शब्दाऽऽदरः। तत्र शक्तिग्रहहेतुलिङ्गादेनिर्णायकस्य सत्त्वेन संशयत्वासम्भवादिति। ननु शब्दनिष्ठशक्तिनिर्णयस्यैव शाब्दबोधे हेतुतावधारणेन तस्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । *तद्ग्रहः । विशिष्टवाक्यार्थशक्तिग्रहः । तथा च शक्तिग्राहकशिरोमणिना परीक्षा संसर्गनिरूपिता शक्तिरित्यर्थः। संसर्गाशे वृत्त्यभ्युपगमस्तु शाब्दबोधविषयत्वान्यथानुपपत्त्यैव प्रयोज्यप्रयोजकवृद्धव्यवहारम्पश्यतो बालस्य प्राथमिकशक्तिनिर्णयो यथा मानसो भवति, तथा पदैः पदार्थोपस्थितौ मनसा वाक्यार्थबोधो भविष्यति, न तु शब्दाच्छाब्दबोध इति । तदनुरोधेन तत्र शक्तिकल्पनं व्यर्थमित्याशयेन शडते-*नन्विति* *पदार्थवदिति। अनोपमेये सप्तमीदर्शनात्सप्तम्यन्ताद्वतिः। *वाक्यार्थः*-संसर्गः । *तद्ग्रहः*-शक्तिग्रहः । मानस इति शेषः । लक्षणशब्दस्य लोके लाञ्छनपरत्वेऽपि प्रतियोग्यार्थमाह*लक्ष्यत इत्यादिना । मूले *अर्थ इति । सप्तम्यर्थो निरूपितत्वम् । पदपदोत्तरसप्तम्यर्थस्त्वाधेयत्वमेव । *तत्तथेति । अन तत्पदार्थः शक्तिज्ञानपरः। तुल्ययुक्या वाक्यार्थनिरूपितवाक्यविशेष्यकमानसशक्तिनिर्णयवत्पदेऽपि तथास्त्विति व्याकरणस्य शक्तिग्राहकसिद्धान्तभङ्गः । इष्टापत्तिस्तु न । मानसस्यैव तस्य स्वीकारे मानसं ज्ञानाश्रयो संशयात्मकं भवतीति संशयापत्तेः । __ यदि पदशक्तिनिर्णयो व्याकरणादिजन्यस्तथा शक्तिनिर्णायकस्य शाब्दबोधाङ्गत्वम्प्रागवधारितम् , तस्य च शाब्दबोधात्प्रागुक्तरीत्या संभव इति वाच्यशक्तिः शाब्दबोधाङ्गत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति । तद्ग्रहः । वाक्यार्थे विशिष्टे
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy