SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०६ दर्पणपरीक्षासहिते भूषणसारे ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्ति ह इत्याशङ्कयाह*अर्थ इति* ॥ वाक्यस्येति शेषः। वाक्यस्य वाक्याथै विशिष्य शक्तिग्रहणञ्चेत्तहि पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्य इत्यर्थः। ___ यदि च पदशक्तिः पदार्थाशे ज्ञाता; अन्वयांशे वाऽज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यस्य शक्तिरक्षातैवोपयुज्यत दर्पणः "कृत्तद्धितसमासाश्व" ( पा० सू० १२१४६ ) इत्यत्र समासग्रहणं कृतम् । वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव । “सामयिकः शब्दादर्थप्रत्ययः" इति कणादोक्तेर्वाक्यशक्तिग्राहकानुशासनादेरभावेन तद्ग्रहाऽसम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति । पूर्वोक्तशक्तिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारान्तरं वक्तुमग्रिम ग्रन्थ इत्याशयेनाह-नन्विति ॥ *अपूर्वत्वात्*-शाब्दबोधात् प्रागनुपस्थितत्वात् । ___ ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षाद्युपस्थितपदार्थनिरूपितशक्तिग्रहः सुलभ एवेति, पदे सममिति मूलमनुपपन्नमत आशयं प्रकाशयति--*पद एवेति । पदानामेवान्वितपदार्थे शक्तिरन्वयश्व सामान्यरूपेण ज्ञानम् , अत एव घटादिपदादन्वितघटाद्युपस्थि. तौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति--किमन्वितो घटः किमन्वितं कर्मत्वमित्याद्याकारा । सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात् । विशेषरूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम् । पदवृत्तिविषयत्वात् । अशक्यस्यापि भानेऽतिप्रसङ्गात् । न चैवं घटमानयेत्यत्रेतरान्वित कर्मत्वमितिरीत्यानेकधा संसर्गस्य भानापत्तिस्तत्तत्पदेभ्यस्तथार्थोपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानसम्भवात् । नचाकासायास्तद्भाननियामकत्वावश्यकत्वे तत्र वृत्तिकल्पनाऽपाथेति वाच्यम् , । अशक्यभानभियैव तदभ्युपगमात् । तथाच पदशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः । पदत्वापेक्षया वाक्यस्य गुरुत्वाच्चेति तन्मतम् । तथाचान्विताभिधानमतेऽपि पदे वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः ॥ *ज्ञातेति ॥ पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः । *अज्ञातैवेति । वृत्त्यभ्युप परीक्षा *अपूर्वत्वात्-शाब्दबोधात्प्रागनुपस्थितत्वात् । इति पक्ष इति । पदानामन्वितपदाथै शक्तिः । अन्वयश्च-सामान्यरूपेणैव भासते । अत एव घटादिपदादन्वितो घट इत्याद्यनुपस्थितौ किमन्वितोऽयमिति विशेषाकाङ्क्षा दृश्यते इति तन्मतम् । वस्तुतस्तन्न युक्तम् । 'घटमानय'इत्यादि वाक्याद् घटकर्मकमानयनमित्याद्याकारको बोध एवनुभवसिद्धो। ननु घटायंशे इतरान्वितत्वस्य भानमिति सम्प्रदायात् । परन्तु परस्य मतमाश्रित्य दृष्टान्ततयोपन्यास इति। *ज्ञातेति । पदार्थानाम्प्रागुपस्थितत्वात्तदंशे पदशक्तिज्ञानस्य सम्भवादिति भावः । *कुञ्जशक्तिवाद इति । यथा 'हरिद्रायां नद्यावशेषः' इति वाक्यश्रवणोत्तरन्नदीपदसमभिव्याहाराद्धरिद्वापदस्य नदीविशेषपरत्वनिर्णये तत्सम्बन्धित्वेन पूर्वज्ञाततीरविशेषणप्रत्ययः, तथा संसर्गाशे वाक्य. स्य शक्तिरज्ञातैव तद्भानोपयोगिनीति भावः । *वाक्यस्य शक्तिरिति । वाक्यनिष्ठा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy