________________
पदस्फोटनिर्णयः ।
४०५
दर्पण: नाकाशस्य जनकतयोपस्थितस्य देवदत्तादेश्च शाब्दे भानवारणाय विषयतया शाब्दसा. मान्ये वृत्तिजन्योपस्थितेविषयतया हेतुत्वं वाच्यम् । एवञ्च संसर्गस्य शाब्दे भानानुरोधेन संसर्गेऽपि वृत्तिकल्पनावश्यकम् । तथा च पदैः पदार्थानां वाक्येन वाक्यार्थस्य बोध इति न विशेष्यविशेषणव्यत्यासेन शाब्दबोधे पदार्थानां भानम् । पदोपस्थितानामेव संसर्गस्य वाक्यशक्त्या बोधादितिवृत्तिज्ञानस्येति यथाश्रुतार्थकमेव तत्र विवेचितम्।
वस्तुतस्तु वृत्तिज्ञानपदं यथाश्रुतार्थकमेव । वृत्तिज्ञानस्येत्यनन्तरमनुषक्तविषयतासम्बन्धेनेत्यस्य वृत्तिज्ञानविषयबोधकत्वघटकबोधीयविषयतासम्बन्धेनेत्यर्थः। अन्यथा वाक्यवृत्तिज्ञानजन्योपस्थितेरेव शाब्दबोधत्वेन तस्मिस्तेन तद्धेतुत्वासम्भवेन वाक्यशक्तेर्गर्भस्रावादिति बोध्यम् ।
अत्र वदन्ति-पदजन्यपदार्थोपस्थितिमन्तरेण शाब्दबोधानुदयात्तादृशपदार्थोपस्थितेः शाब्दबोधे हेतुतेति तावन्निर्विवादम् । पदस्य च प्रकृत्याद्यात्मकस्याऽर्थे सम्बन्धं विना तदुपस्थापकत्वासम्भवात्तस्मिन् वृत्त्यात्मकसम्बन्धोप्यावश्यक एव, न तु तत्समुदायरूपपारिभाषिकपदस्य तत्समूहरूपवाक्यस्य विशिष्टार्थे सः। तं विनापि तेभ्य आकाङ्क्षादिरूपकारणसमवधानादेव विशिष्टबोधोपपत्तेः । एकपदार्थविशिष्टापरपदार्थशाब्दत्वस्यैव तत्कार्य्यतावच्छेदकत्वात् ।
यत्तु-लाघवादू वृत्तिज्ञानजन्योपस्थितेविषयतासम्बन्धेन हेतुत्वमेव वाक्यशक्तौ प्रमाणमिति चेत् ? न । स्वातन्त्र्येण तद्धेतुत्वस्यैवासिद्धः। तथाहि-ताशकार्यकारणभावे वृत्तित्वेन पदवृत्तनिवेशः किं वाक्यवृत्तः, किं वा वृत्तिसामान्यस्य ? । न तावदाद्यः । पदवृत्तिज्ञानजन्योपस्थितेः शाब्दहेतुत्वस्य सर्वेरेवाभ्युपगमात् । न द्वितीयः । वाक्यवृत्तेस्ततः प्रागसिद्धः । अत एव न तृतीयः । किञ्च तव मते वाक्यशक्तिजन्योपस्थितेः शाब्दबोधात्मकत्वेन तस्मिस्तद्विषयत्वासम्भवादपि नोक्तरीतिः साधीयसी । अपि च वाक्यवृत्तिज्ञानस्य शाब्दसामान्येन स्वातन्त्र्येण हेतुत्वं, यदा कदाचि. द्विवरणादिना घटादिपदशक्तिज्ञानजन्यपदार्थोपस्थितिदशायां घटमानयेति वाक्यशक्तिमविदुष आकाङ्क्षादिवशाच्छाब्दबोधोदयेन व्यभिचारात्। - यदपि समभिव्याहाररूपाकाक्षैव वाक्यमिति । तदपि न । तथा सति घटीयाकर्मतेत्यादिबोधे घटमानयेति वाक्यं साकाङ्क्ष, निराकाङ्क्ष च घटः कर्मत्वमिति सर्वसिद्धव्यवहारानुपपत्तिः । पदयोः समभिव्याहार इतिवत् पदयोर्वाक्यमिति व्यवहार. प्रसङ्गश्चेति समभिव्याहृतपदानामेव वाक्यत्वमुपगन्तव्यम् । तथाच--समभिव्याहा. रस्य शाब्दबोधहेतुत्वेऽपि वाक्यस्य तत्त्वं दुरुपपादमेवेति क वाक्यशक्तिसिद्धिः । समभिव्याहारनिष्ठबोधजनकत्वग्रहवतो बोधात्तज्ज्ञानं हेतुरित्यपि रिक्तं वचः । अन्वयव्यतिरेकाभ्यां समभिव्याहारज्ञानस्यैव शाब्दधीहेतुत्वेन तन्निष्ठबोधजनकत्वज्ञानस्य हेतुताया एवाभावात् । न च तदपि सम्भवति । शाब्दबोधात् प्राक् संसर्गस्यैवानुपस्थितेः । सामान्यतस्तदुपस्थितावपि विशेषरूपेण भानाऽर्थे तात्पर्य्यज्ञानाद्यपेक्षणे च मूलशैथिल्यात् वाक्यशक्तेरेवासियापत्तिः। वक्ष्यमाणरीत्या शाब्दबोधात् प्राक् तदुपस्थित्यभ्युपगमे वाक्यवृत्तिज्ञानजन्योपस्थित्यनन्तरं शाब्दबोधाभ्युपगमे वा शाब्दप्रामाण्यभङ्गापत्तिः । अनधिगतार्थग्रहकारणस्यैव प्रमाणत्वात् । अत एव सूत्रकृता