SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४०४ दर्पणपरीक्षासहिते भूषणसारेवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् । विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धः। विवेचितचैतद् भूषणे । दर्पणः ननु स्यादेवोक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं सप्रमाणं स्यात् , तदेव तु नेत्यत आह-*युक्तं चैतदिति । एतदू-वाक्यनिष्टबोधकत्वस्य शक्तित्वम् । युक्तिमेवाह-*विषयतेति । शाब्दबोधमात्रे तत्सामान्य इत्यर्थः । *वृत्तिज्ञानस्येति । वृत्तिज्ञानजन्योपस्थितेरित्यर्थः । विषयतासम्बन्धेनेत्यनुषज्ज्यते । * लाघवेनेति । अन्यथा घटपदशक्तिमविदुषस्तत्पदज्ञानवतो घटमानयेति वाक्याद बोधापत्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकार्यकारणभावकल्पने गौरवम् । अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेरसत्वान्न शाब्दे तस्य भानमित्येक एव कार्यकारणभावः कल्प्यत इति लाघवादित्यर्थः। ___ ननु घट्घटत्वयोर्विशेष्यविशेषणभावे विपरीतव्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोधोपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्यकारणभावे मानाभावोऽत आह-*विवेचितं चैतदिति । पदपदार्थभेदेनानन्तकार्यकारणभावेषु वृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वेनैव शाब्दसामग्रीकुक्षौ प्रवेश उचितः, तथा सति समावाये परीक्षा ब्दनिष्ठं यज्ज्ञानकारणत्वन्तस्यैवेत्यर्थः । *युक्तमिति । वाक्यनिष्ठबोधकतायाः शक्तित्वकल्पनं युक्तमित्यर्थः । *शाब्दबोधमात्र इति । अत्र मात्रपदकात्स्ने पदजन्ये वा. क्यजन्ये चेत्यर्थः। रामठपदे छिन्नापदे च शक्तिज्ञानवतो 'रामठनीयम्प्रोक्तं छिन्नापुष्टिकरी स्मृता इति वाक्यादबोधात्तच्छून्यस्य चाबोधादन्वयव्यतिरेकाभ्यां तत्तत्पदवृत्ति. ज्ञानस्य कारणत्वमवश्यं वाच्यमिति कार्यकारणभावानन्त्यमिति शाब्दबोधमात्रे वृत्तिज्ञानत्वेन कारणतेत्येकविधयैव कार्यकारणभावः कल्प्यः। विषयतासम्बन्धेनेत्यनेन पदार्थवाक्यार्थनिष्ठो बोधनिष्ठकार्यताया अवच्छेदकसम्बन्धः प्रदर्शितः। *वृत्तिज्ञानस्येति । अस्य स्वविषयवृत्तिनिरूपकत्वङ्कारणतावच्छेदकसम्बन्धत्वम् । वृत्तिज्ञानजन्मोपस्थितेस्तु विषयतैव कारणतावच्छेदकः सम्बन्धः । ___ नचैवमपि यत्किञ्चित्पदशक्तिमानतो घटपदवृत्तिमविदुषो घटपदादू घटत्वविशिष्टविषयकबोधापत्तिरिति विशेषतो घटत्वादिविशिष्टविषयकशाब्दबोधे घटादिपदवृत्तिज्ञानजन्यघटाद्युपस्थितित्वेन कारणतेत्येवंविधः कार्यकारणभावोऽप्यावश्यकः । इति विशेषकार्यकारणभावेनैवोपपत्तौ सामान्यकार्यकारणभावे मानाभाव इति वाच्यम् । कार्याभावे कारणाभावस्य प्रयोजकतायाः क्लृप्तत्वाद्विषयतासम्बन्धावच्छिन्नशाब्दबुद्धित्वावच्छिन्नाभावे विशेषाभावकूटस्य कारणत्वकल्पने गौरवमिति सामान्याभावस्यव प्रयोजकत्वं वाच्यमित्याशयेन सामान्यकार्यकारणभावस्य प्रदर्शनादित्याशयेनाह-विवेचितमिति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy