SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ पदस्फोटनिर्णयः। ४०३ सत्यपि तात्पर्यशाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरं कर्मत्ववाचकविभक्तेस्ततो धातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत् ? तर्हि सिद्धो वाक्यस्फोटः। घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकायकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्द दर्पणः . ननु शाब्दबोधकारणार्थतात्पर्य्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह*सत्यपीति* । *बोधाभावादिति । तादृशबोधाभावादित्यर्थः। तथाच पदाभावात् कार्याभावस्तस्य तद्धेतुतया वाक्यशक्तिरावश्यिकेति भावः। एतेन व्यतिरेकसहचारकारणताग्राहकः प्रदर्शितः । अन्वयं प्रदर्शयन् वाक्यशक्ति व्यवस्थापयति-*तत्रैवेति* घटमानयेत्यत्रैवेत्यर्थः । बोधादित्यनेन स्वरूपसतो हेतुत्वव्यवच्छेदः। तादृशसाकाकनिष्ठबोधहेतुत्वस्यैवास्मन्मते वाक्यशक्तित्वेनाकाङ्क्षाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसिद्धिनिराबाधेत्याशेयनाह-*तहीति ॥ ननु शाब्दबोधे हेत्वर्थोपस्थितिजनकत्वं शक्तित्वम् । तत्तु पद एव, न वाक्ये । तनिष्ठबोधकतायास्तादृशोपस्थित्यजनकत्वादत आह-*अर्थोपस्थापकेति* ॥ *शब्दवृत्तीति । शब्दनिष्टं यद्बोधकारणत्वमित्यर्थः। तथा चोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तित्वाऽक्षतेः । बोधकशब्दस्य शब्दत्वेन निवेशाच्चाऽपभ्रंशस्यापि संग्रह इति भावः । - ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्त देन शक्तयानन्त्यम् । किञ्च पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्याऽर्थबोधजननाद्वाक्यशक्तिग्रहस्य तद्धेतु. तायां व्यभिचारः । अखण्डवाक्यपक्षस्तु नेदानी प्रक्रान्तः। कार्यतावच्छेदकऽव्यवहितोत्तरत्वनिवेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहः शाब्दबोधात् प्रागसम्भवीति कथं तस्य कारणतेति चेत् ? सत्यम् । संसर्गस्य विशिष्यानुपस्थितावपि तदादिवत् कारकविभक्तिविशिष्टधातुपदं कारकविशिष्ठक्रियाबोधकमिति सामान्यतस्तद्ग्रहात् तात्पर्य्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात्। अनन्तरं पदविशेषसमभिव्याहारेण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतक्रियाभानम् । नापि संससर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम् । सम्बन्धत्वस्यानुगमकस्य सत्वात् , तत्पदघटितसमभिव्याहारस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः । परीक्षा । ननु तात्पर्य्यज्ञानसत्वेऽपि विलक्षणं किञ्चित्कारणङ्कल्प्यते, तदभावात्तादृशबोधाभाव इत्याशयेन कारणं दर्शयति-*नचैवेत्यदिना । *घटादिपदार्थबोधे इति । अस्य त्वयेत्यादिः। *कल्पनादिति । तादृशस. मभिव्याहार एवाकाङ्केति तादृशाकाङ्क्षाज्ञानस्य हेतुत्वसिद्धौ वाक्यस्फोटस्य स्फुट सिद्धिरिति भावः । *शब्दवृत्तीति । अत्र शब्दपदम्पदबोधात्मकशब्दमात्रपरम् । श
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy