________________
३२४ दर्पणपरीक्षासहिते भूषणसारेस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादौ-अनुभवादिप्रत्ययापत्ते. श्च । न विशिष्टार्थः, गौरवात् । तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा, उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु । तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति। । तच्च चादिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदं लक्ष्यम् । इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति।
दर्पणः देर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छतीत्यादाविति । अत्रानोरनुभवाऽर्थकत्वे तदनुरोधेन गमेरपि व्यापारसामान्याऽर्थकताया एवाऽभ्युपेयतया तथा प्रतीतिदुर्वारा स्यादित्यर्थः।
वस्तुतस्तु संयोगाऽवरुद्धव्यापारेऽन्वर्थानुभवस्य बाधेनाऽन्वयासम्भवान्नाऽनोरनुभवार्थकत्वसम्भावनेति भावः । *गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गारवादित्यर्थः । *तथाचेति । धातूपसर्गविशिष्टानां प्रत्येकं प्रतीयमानानुभवार्थप्रति. पादकत्वासम्भवादिति समुदितार्थः । विद्यमानत्वादीत्यादिनोत्पत्तिर्गृह्यते । लक्षणे. त्यस्यानुभवादिरूपेऽर्थे इति शेषः । लक्षणाकल्पिकायास्तात्पर्य्यानुपपत्तेस्ताप्तर्यग्रहाऽधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायत्तत्वादित्यर्थः।
नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातं, न द्योतकत्वमत आह-*तथा. चेति ॥ तात्पर्य्यग्राहकत्वमेवेत्येवकारेण द्योतकत्वस्य वृत्त्यन्तरव्यवच्छेदः । अनुभवा.
परीक्षा
*व्युत्पत्तेरिति । इदमुपलक्षणम् । यद्यनुभव उपसर्गार्थस्तदा तस्मिन्नर्थे भ्वादेर्धातुसंज्ञान स्यात्, क्रियावाचकत्वाभावादिति । दूषणान्तरमाह-*अन्विति । एतेनानुभवतीत्यादावनुभवः। फलन्तदनुकूलव्यापारो धात्वर्थ इत्यपास्तम् । अनुगच्छतीत्यत्र गमेर्गतिवाचकतया गतेस्वव्यापाररूपतयाऽनुभवाजुकूलव्यापारस्य बोधापत्तिः। यदि तु 'ग्रामं गच्छति' इत्यत्र गमधातोः संयोगावच्छिन्नव्यापारे शक्तस्तया प्रकृतेऽपि स एव धात्वर्थो भविष्यति, तत्र चानुकूलतासम्बन्धेनानुभववैशिष्ट्यम्बाधितमिति नानुभवानुकूलव्यापारप्रत्ययापत्तिरिति विभाव्यते, तदाऽनन्वयापत्तिर्दोषो बोध्यः । नन्वीश्वरमनुभवतीत्यत्रानुभू इतिविशिष्टस्य समुदायस्य सोऽर्थ इति चेत्तत्राप्याह*गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवादित्यर्थः। एवं समुदायार्थस्य प्रकृत्यर्थत्वाभावेन प्रत्ययार्थानन्वयापत्तिरित्यपि बोध्या। एवञ्च यत्सिद्धन्तदाह-*तथा चेति । नन्वेतावतोपसर्गस्य तात्पर्यग्राहकत्वसिद्धावपि न द्योतकत्वसिद्धिरत आह-*तथाच तात्पर्येति । एवकारेणान्याग्रह यस्य न, तस्य व्यवच्छेदः । ननूपर्युक्तद्योतकत्वन्तदा प्रादीनामपि क्रियायोगाभावादुपसर्गसंज्ञा न स्यादितिचेद् ? न, क्रियायोगस्य यम्य क्रियाविशेषणीभूतार्थतात्पर्यग्राहकत्वरूपमेवार्थ इति यत्र यस्य फलस्य धात्वर्थव्यापारविशेषणतया प्रतीतिर्यदुपसर्गसमभिव्याहाराधीनात्तत्र तादृशार्थयोजकत्वमादायैवोपसर्गसंज्ञाप्रवृत्तेः।
*तत् । निरुक्तं द्योतकत्वम् । उक्तस्य द्योतकत्वस्याङ्गीकारे युक्त्यन्तरमाह