SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः। तत्र स्वयं युक्त्यन्तरमाह-*उपास्येते हरिहरौ इति* ॥ . तत्र ह्युपासनाकिमुपसर्गार्थो ? विशिष्टस्य ? धातुमात्रस्य वा ? नाद्यः । तथा सति स्वार्थफलभ्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्यास्धातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कमणि लकारो न स्यात् । न द्वितीयो, गौरवात् । तृतीये त्वागतं द्योतकत्वम् । तात्पर्य्यग्राहकत्वलाभादिति भावः । दृश्यते इत्यत्र कर्मणीति शेषः ॥ ४२ ॥ तञ्चादिष्वपि तुल्यमित्याह तथान्यत्र निपातेऽपि लकारः कर्मवाचकः ॥ विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥४३॥ अन्यत्र -साक्षात्क्रियते मलकियते, ऊरीक्रियते शिव इत्यादौ । अत्रापि धातोस्तत्तदर्थं कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत् द्योतकत्वममीषामपीत्यर्थः। यद्यपि कृधातोः दर्पणः दिफले धातोस्तात्पर्य्यग्राहकत्वस्योपसर्गसमभिव्याहाराऽधीनत्वात् “उपसर्गाः क्रियायोगे” (पा. सू० १।४।५९) इत्यत्रापि क्रियाविशेषणीभूताऽर्थतात्पर्य्यग्राहकत्वमेव "उपसर्गाः क्रियायोगे" इत्यनेन विवक्षितमिति भावः । एतत्तत्वमग्रे वक्ष्यते । *तत्रे. ति । द्योतकत्व इत्यर्थः । सकर्मकत्वस्येत्यनापत्तेरित्यनेनान्वितम् ॥ ____ ननु माऽस्तु सकर्मकत्वमत आह-*तत इति । उपोपसृष्टास्धातोरित्यर्थः । तथाचोपास्यते हरिरित्यादिप्रयोगानुपपत्तिरिति भावः । *तृतीये विति* । धातुमात्रार्थ इति कल्पे त्वित्यर्थः । आगतमिति कर्त्तक्तान्तम् । उपाधऽसमभिव्याहारे विना शक्तिं गम्धातोस्तादृशबोधादर्शनात्तस्येतरार्थपरतायामुपसर्गस्य नियामकत्वलाभादिति भावः ॥ ४२ ॥ *तच्चादिष्विति । तदू-द्योतकत्वम् ॥ *तत्तदर्थेति । तत्तदर्थबोधकत्वमि परीक्षा *स्वयमिति । अत्र उपास्येत इत्यत्र सकर्मकत्वस्येति अस्यानापत्तेरित्यत्रानन्वयः । तृतीये धातुमात्रार्थकत्वकल्पे आगतमिति उपशब्दासमभिव्याहारे धातुमात्रस्यारिक्तस्य प्रयोगे उपासना न प्रतीयते इति तस्याम् धातोस्तादृशार्थपरताया तात्पयग्राहकत्वमुपन्यस्य कल्प्यमिति द्योतकत्वसिद्धिरिति भावः ॥ ४२ ॥ ____ तत्-निरुक्तन्योतकत्वम् । निपातेऽपीति । समभिव्याहृत इति शेषः । धातोस्तत्तदर्थबोधकत्वपक्षे यथेष्टसिद्धिस्तथाह-*अनापीति । *अमीषाम्चादीनाम् । ननु भूधातुरिव न कृधातुरकर्मकः ; किन्तु सकर्मक एव, क्रियते कट इति दर्शनात् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy