SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - सकर्मकत्वमस्त्येव, तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुविकुरुते, सैन्धवा विकुर्व्वते इत्यत्रापि स्यादिति भावः । अथोपासना साक्षात्कारादिर्निपातार्थोऽस्तु, "साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात् । तदनुकूलो व्यापार एव धात्वर्थोऽस्तु । स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणत्र्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टन्तिकावयुक्ताविति नेदं साधकमिति चेद् ? न । नामाऽर्थधात्वर्थयोर्भेदेन साक्षादन्वयाऽसम्भवेन निपातार्थधात्वर्थयोरन्वयस्यैवासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति । ३२६ किञ्च प्रादीनां वाचकत्वे 'भूयान् प्रकर्ष:' 'कीदृशो निश्चय' इतिवद्, भूयान् प्रः कीदृशो निरित्यपि स्यात् । अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यतो द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह—*विशेषणेति ॥ शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभ दर्पणः त्यर्थः । *अमीषामिति । चादिनिपातानामपीत्यर्थः । *अस्त्येवेति । घटः क्रियत इत्यादौ कर्म्मणि लकारदर्शनात् कृञः सकर्मकत्वानुपपत्त्या साक्षात्कारे लक्षणेति भावः । *एष्विति* । साक्षात्कारादिरूपार्थेष्वित्यर्थः । *अन्यथेति । क्वचिदर्थान्तरमादाय कृञः सकर्मकस्य सर्वत्र तत्त्वाङ्गीकारे इत्यर्थः । I * वायुर्विकुरुत इति । विकारानुकूलव्यापारवाचकस्याऽपि सकर्मकतापत्त्या “अकर्मकाच्च” (पा० सू० १।३।३५ ) इति विहितात्मनेपदानुपपत्तिरिति भावः । 'उपास्यते गुरुः' इत्यादावुपाद्युपसर्गाणामुपासनाद्यर्थवाचकत्वेऽपि पूर्वोक्तसकर्मकत्वानुपपत्ति परिहरति — इदमिति । सकर्मकत्वाऽनुपपत्तिरूपमित्यर्थः ॥ *साधकम् - द्योतकत्व - साधकम् । व्युत्पत्तौ निपातातिरिक्तत्व विशेषणान्नेयमापत्तिरत आह—* किञ्चेति* । *इत्यपि स्यादिति। अभ्युच्चयवादोऽयं चाद्युपस्थाप्यसमुच्चयस्य नित्यं समुच्चयसाकाङ्क्षतया समुच्चयार्थ कपदप्रयोगं विना चादिप्रयोगासम्भवात् । शब्दशक्तिस्वाभाव्येन नित्यं धातुपरतन्त्रोपसर्गेः स्वार्थस्य धात्वर्थविशेषणतयैव बोधनेन तदसमभिपरीक्षा एवञ्च न कर्मार्थकलकारानुपपत्तिरत आह-*यद्यपीति । एष्वर्थेषु - साक्षात्कारादिष्वर्थेषु । अन्यथा-यत्र कुत्रचित्सकर्मकत्वदर्शनेन सर्वत्रैव सकर्मकत्वे इत्यत्रापि स्यादिति विकारानुकूलव्यापारवाचकस्यापि सकर्मकत्वे सति विशब्दसमभिव्याहारेऽकर्मकद्योत्यात्मनेपदम्, सकर्मकत्वानुपपत्तिरूपं न स्यादिति भावः । *साधकम् * । द्योतकत्वस्य साधकम् । *साक्षात् विभक्त्यर्थमुररीकृत्य । *अन्यथा * - नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयस्वीकारे । इत्यपि स्यादिति। अभ्युपगम्यवादेनैषोक्तिः, न निपातास्य नित्यत्वम्, न तन्त्रतया केवलानान्तदर्थे प्रयोगाभावात । * साधकान्तरमिति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy