________________
निपातार्थनिर्णयः ।
नश्च द्रष्टव्य इत्यस्यापत्तेस्तुल्य समाधेयत्वादितिभावः ।
अपि च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः । अन्यथा 'राजा पुरुषः" इत्यस्य राजसम्बन्धी पुरुष इत्यर्थापत्तेरित्यभिप्रेत्याह-आदीति ॥ धवखदिरयोः समुच्चय इतिवद् धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ ४३ ॥
३२७
ननु प्रातिपदिकार्थयोर्भेदेनान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो निपाताऽतिरिक्तविषय एवेति नोक्तदोष
दर्पणः
व्याहारे तत्प्रयोगस्याप्यसम्भवात् । अत एव वक्ष्यति
तुल्यसमाधेयत्वादिति ॥
ननु निपातानां वाचकत्वे "चायें द्वन्द्वः" ( पा० सू० २।२।२९ ) इत्यादिसूत्रमेव मानम् । प्रादीनां वाचकत्वे तु मानाऽनुपलम्भात् द्योतकतैवोचितेति चेद्र ? तत् किम् "ईषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल्” ( पा० सू० ३ | ३ | १२६ ) इत्यादिसूत्रात्मकं मानं पाणिपिहितमिति विभावय । षष्ट्यादिकमित्यादिपदेन तदर्थविहितद्वितीयादिपरिग्रहः । अभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थप्रकारता निरूपितविशेष्यतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुतया प्रकृते तदभावेन भेदान्वयासम्भव इत्यर्थः । अन्यथा * -उक्तकार्यकारणभावानभ्युपगमे । *आपतेरिति । भेदेनान्वयबोधापत्तेरित्यर्थः । *आदीति । भेदान्वयसङ्ग्राहकमादिपदमित्यर्थः ॥ ४३ ॥
* भेदान्वयेति । प्रातिपदिकार्थयोरभेदान्वय इति पाठस्तु तादृशान्वयबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य केनाऽप्यनभ्युपगमादप्रक्रान्तत्वाच्च चिन्त्यः । : * निपाताति
परीक्षा
निपातानां द्योतकत्वे इत्यादिः । *तुल्यसमाधेयत्वादिति । यदि प्रादीनां नित्यस्य स्वतन्त्रतया केवलानां तदर्थे विशेषणानामन्वय इतिचेद् ब्रूषे ! तदा चादीनामपि नित्यस्य स्वतन्त्रत्वात्तदर्थे विशेषणान्तरान्वयो न सम्भवतीति 'विष्णुमुपासत' इत्यत्रोपाद्यथें कर्माद्यन्वयासम्भवात्तषामपि द्योतकत्वमेव, यदि निपातानां वाचकत्वे “चार्थे द्वन्द्व : " इति सूत्रं साधकमिति तवाभिमतम्, तदा प्रादीनामपि वाचकतायाम् " ईषदुः सुषु" इति सूत्रं मानमिति विभावयेति भावः । *विना षष्ठ्यादिकमिति - आदिपदेन द्वितीयादेः परिग्रहः । तथा चाभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थनिष्ठप्रकारतानिरूपितविशेष्यता सम्बन्धेन शाब्दबोधे विभक्तिजन्योपस्थितिविशेष्यतासम्बन्धेन कारणमिति कार्यकारणभावस्यावश्यं वाच्यतया तदभावेनान्वयासम्भवः । *अन्यथा* । उक्तकार्यकारणभावानभ्युपगमे । *आपत्तेरिति । स्वत्वसम्बन्धेन राजपदार्थप्रकारकबोधस्यापत्तेरित्यर्थः । *आदीतीति । तत्रत्यमादिपदम्भेदसम्बन्धेनान्वयबोधसङ्ग्राहकमिति भावः ॥ ४३ ॥
*एवेतीति*। उक्तकार्य कारणभावघटककार्यतावच्छेदकशरीरविशिष्टप्रातिपदिके नि पातातिरिक्तत्वं विशेषणं देयम् । तथा च आचार्यसमुच्चयस्य निपातार्थपातेन समयम्पदार्थान्तरस्य भेदसम्बन्धेनान्वयबोधस्य नानुपपत्तिरिति भावः । सदृक्शब्दः समाना