________________
३२८
दर्पणपरीक्षासहिते भूषणसारे
इत्याशङ्कयाह
पदार्थः सदृशाऽन्वेति विभागेन कदापि न ॥ निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥४४॥ सदृशा-सदृशेन, समानाधिकरणेनेति यावत् । अन्वेति, अभे. देनेतिशेषः । विभागेन-असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थ:-समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिनि
दर्पणः रिक्तति । तथाच समुच्चयाद्यर्थस्य निपातार्थकत्वेन न तेन सार्क पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः । सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्या प्रकृते तुल्ये रूढस्य, "तमिवेमं पश्यन्ति जना” इति भाष्ये कर्त्तकर्मव्युत्पन्नस्य वा। तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे-*सदृशेनेति । तुल्येनेत्यर्थः ।
ननु विरुद्धविभक्तिकस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह-*समानाधिकरणेनेति । तथाच समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विवक्षणानोक्तदोष इति भावः । एवञ्च मूलेऽन्वेतीत्यनन्तरमभेदेनेतीति शेषः । स्तोकम्पचतीत्यादौ विभिन्न विभक्तिकपदोपस्थाप्यत्वसदृशेनाप्यभेदान्वयादाह-*असमानाधि करणेनेति। विशेषवाचकपदप्रकृतिकविभक्तिविरुद्धार्थकविभक्तिप्रकृत्युपस्थाप्येनेत्यर्थः।
ननु वाचकतावादिनोक्तव्युत्पत्तनिपातातिरिक्तत्वेन सङ्कोचनीयतयेत्युक्त्यैवाक्षेपध्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति । स चेत्थं "विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यवच्छिन्दता नामाथोंभेदेनाऽनन्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरितिव्युत्पत्त्यन्तरं तथा। किन्तु दृष्टान्तविधेयतया तदुपन्यसनमिति नोक्तदोषः । तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कीर्तनमिति सर्व सुस्थम् ।
परीक्षा दृगित्यर्थको यद्यपि सम्भवति तदुपादानेऽन्वयानुपपत्तिरिति भावः । सदृक्शब्दः समा. ना दृगित्यर्थको यद्यपि सम्भवति ; तथापि तदुपादानेऽन्वयानुपपत्तिरिति तुल्यरूपेऽर्थे रूपस्य तस्य ग्रहणमित्यभिप्रेत्याह-*सदृशेनेति । *समानाधिकरणेनेति समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यं विवक्षितमिति भावः । ननु मृदु पचतीत्यादौ विरुद्ध विभक्तिकपदार्थेऽप्यभेदान्वयो भवतीत्यसदृशेनेत्यनुपन्नमत आह-*असमानेति।
ननु पूर्वोक्तकार्यतावच्छेदकघटके निपातातिरिक्तत्वं विशेषणं मया दीयते इत्यनेन वाचकत्ववादिन आक्षेपसिद्धौ पदार्थ इत्यादिकथनमयुक्तम्पूर्वाक्षेपापरिहारादत आह*अयमर्थ इत्यादिः । अयम्भावः-विभागेनेत्यनेन व्यधिकरणयोरभेदान्वयव्यवछे. देन नामार्थयोभेदेन नान्वय इत्येव प्रदर्श्यते नतु समानाधिकरणयोरिति व्युत्पत्यन्तरं स्वीकार्यमिति । नच व्युत्पत्यनन्तरं न स्वीकार्यमित्यनुपपन्नं व्युत्पत्तिविचारस्या. प्रकृतत्वादिति चेदू ? न । पूर्वोक्तादिपदेन क्रोडीकारात् ।