SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः। ३२९ पातातिरिक्तविषयेति कल्पने मानाभावो गौरवञ्च । अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः । अत एव 'घटो नास्ति' इत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमितिनैयायिकाः॥४४॥ दर्पणः ननु नामाऽर्थयोरभेदान्वयबोधे समानविभक्तिकपदजन्योपस्थितिहेतुतायां पदांशे निपाताऽतिरिक्तत्वं निवेशनीयमिति नोक्तदोष इत्यवतरणं तु सधीचीनम् । नच ताहशव्युत्पत्तेरप्रक्रान्तत्वात् कथमेतदिति वाच्यम् । मूलोक्तादिपदेनैव षष्ठयादिकमन्तरेण भेदेनाऽन्वयासम्भवं प्रतिपादयता समानविभक्तित्वेन धवश्चेत्यादावभेदान्वयापादनस्याऽपि कुक्षीकृतत्वात्तदेव च सामानाधिकरण्यं व्युत्पत्तौ निविष्टमिति यथाश्रुतमूलसङ्गमनादिति । ननु तदन्वयानुपपत्तिरेव मानमत आह-*गौरवञ्चेति । ननु तवाऽपीदं दूषणं समानमत आह-अस्माकमिति । द्योतकतावादिनामित्यर्थः । *द्योतकत्वादिति । चादीनां समभिव्याहतपदसमच्चिततत्तदर्थरूपलक्ष्यार्थे तात्पर्य्यग्राहकत्वादित्यर्थः । *नास्तीति । समुच्चयादेस्तन्निरूपकत्वादेश्च समभिव्याहृतपदेनैव लाभात्तस्य पृथगु-. पस्थित्यभावेनाऽन्वयस्यैवाभावेनोक्तस्थलस्य तादृशव्युत्पत्त्यविषयत्वादिति भावः । *अत एवेति* । व्युत्पत्तौ निपातातिरिक्तत्वविशेषणप्रवेशादेवेत्यर्थः । *प्रतियोगिके लाक्षणिकमिति* । व्युत्पत्तेस्तद्धटितत्वे तु तत्र लक्षणानुसरणं व्यर्थमेव स्यादिति भावः। __ नैयायिकास्तु नजो वाचकतया भाष्यसम्मतत्वाद् , घटो न पटश्चैत्रो न पचति इत्यादौ नअर्थाभावस्य विशेषणतया घटचत्रादिष्वन्वयाऽनुरोधादुक्तव्युत्पत्ती व्यभिचारवारणाय निपाताऽतिरिक्तत्वविशेषणमावश्यकम् । एवञ्च घटश्च पटश्चेत्यादौ विभक्तिजन्योपस्थितिं विनाऽपि चाऽर्थस्य घटादिष्वन्वयः सुलभः। ___ न च घटो नेत्यत्र घटस्य नामार्थत्वाद्विभक्तिजन्योपस्थिति विना प्रतियोगितासंसर्गकनार्थविशेष्यकबोधानुपपत्तिर्दुष्परिहरैवेति वाच्यम् । एतद्रियैव घटादिपदानां परीक्षा ननु निपातार्थेऽन्वयानुपपत्तिरेव मानम्भविष्यतीत्यत आह-*गौरवमिति* *अत एव* । उक्तव्युत्पत्तौ निपातातिरिक्तत्वविशेषणस्याप्रवेशादेव । *नैयायिका इति । प्राञ्च इति शेषः। वस्तुतस्तु 'घटो न पटः, 'चैत्रो न पचति, चैत्रस्य मैत्रः, इत्यादिभ्यो भेदसम्बन्धावच्छिन्ननामार्थयोरन्वयबोधो दृश्यत एव । आधे-अन्वयितावच्छेकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नामार्थप्रकारकभेदविशेष्यकान्वयबोधः । द्वितीये-आख्यातार्थाभावस्य चैत्रपदार्थे आश्रयतासम्बन्धेनान्वयबोधः, तृतीये इवार्थसादृश्ये निरूपितत्वसम्बन्धेन चैत्रपदार्थस्यान्वय इति निपातातिरिक्तत्वविशेषणमुकव्युत्पत्तौ नव्यनैयायिकैर्निवेशितमेव । नचैवं गौरवम् । उक्तव्युत्पत्तौ निपातातिरिक्तत्वविशेषणस्य स्वाश्रयेण दाने हि तथा। वस्तुतस्तु-भेदसम्बन्धांवछिन्ननामार्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विभक्तिजन्योपस्थितिः कारणमिति कार्यकारणभावः। तत्र कार्य ४२ ६० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy