________________
दर्पणपरीक्षासहिते भूषणसारे -
अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति सा
धकान्तरमाह -
३३०
शरैरुत्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ इत्यादावन्वयो न स्यात् सुपाञ्च श्रवणं ततः ॥४५ ॥
अत्रोत्रसदृशैः शरैः रसस दृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । अयञ्चोस्त्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सत्येव सङ्गच्छते । अन्यथा प्रत्ययानं प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः ।
तथाहि-- उनैरिति करणे तृतीया । न चोस्रोऽत्र करणम् । इवासशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् । मप्रकृत्यर्थत्वात् । इवशब्दस्य चाऽसत्त्वार्थकतया तदुत्तरं तृतीयाया
दर्पण:
तत्प्रतियोगिके लक्षणाभ्युपगमात् निपातातिरिक्तनामार्थयोः साक्षाद्भेदेनाऽन्वयोऽन्युत्पन्न इत्यत्र द्विवचनस्वारस्येन निपातातिरिक्तनामार्थनिष्ठ भेदसम्बन्धावच्छिन्नप्रकातानिरूपित निपातार्थाऽवृत्तिविशेष्यतासम्बन्धेन बोधे, विशेष्यतासम्बन्धेन विभक्तिजन्योपस्थितेर्हेतुत्वकल्पनाद्वा सामञ्जस्यादित्याहुः ॥ ४४ ॥
उक्तव्युत्पत्तेर्निपातातिरिक्तविषयत्वेन पूर्वोक्तदोषपरिहारेऽपि स्थलान्तरे तन्मतेऽ ऽन्वयानुपपत्तिर्दुर्वा रैवेत्याशयेन मूलमवतारयति — अपि चेति । *इत्यर्थं इति । इत्यन्वयबोधः सर्वसम्मत इत्यर्थः । अयञ्चेति । उक्तार्थान्वयश्चेत्यर्थः । * अन्यथेति । निपातानां वाचकत्वाभ्युपग इत्यर्थः । व्युत्पत्तिविरोधं व्यक्तीकरोति* तत्र* । उदीचोद्धारणे । *तथाहीत्यादि ।
नन्विवशब्दोत्तरलुप्ततृतीयार्थकरण एवेवार्थान्वयः सुलभो अत आह-*इवशब्दस्येति* | *असत्त्वार्थकतयेति* । लिङ्गाद्यनन्वय्यर्थकतयेत्यर्थः । निपातत्वादिति यावत् । परीक्षा
तावच्छेदकसम्बन्धघटकनामार्थनिष्ठविषयतायान्निपातार्थावृत्तित्वदानेन सामञ्जस्यमिति गौरवाभावात् ॥ ४४ ॥
युक्त्यन्तरेण निपातानां द्योतकत्वं समर्थयते -*अपिचेति । * इत्यादावन्वय इति । आदिना पुत्रमिव शिष्यम्पाठयतीत्यादेः सङ्ग्रहः । *अन्यथा - उस्रादिशब्दानामुखादिसदृशे लक्षणाया अस्वीकारे । *तस्य* = सदृश्यस्य । *अनेन* = उस्रपदोतरटाप्प्रत्ययेन । *अप्रकृत्यर्थत्वादिति । 'प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकत्वादिति शेषः । नन्विवशब्दोत्तर तृतीयपदोपस्थापितकरणत्वे सदृशस्यान्वयोऽस्त्वित्यत आह - * इवशब्दस्येति । *तृतीयाया असम्भवात् * - करणत्वार्थकतृतीयाया असम्भवादित्यर्थः ।
क्रिया न युज्यते लिङ्ग क्रियानाधारकारकैः । असत्वरूपता तस्या इयमेवावधार्यताम् ॥