SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः । असम्भवात् । सम्भवे वा श्रवणप्रसङ्गात् । उस्रपदोत्तरतृतीयानन्वयप्रसङ्गाच्चेत्याह-*सुपां चेति ॥ सुपां श्रवणञ्चेत्यर्थः । चकारादुस्रपदोत्तर तृतीयानन्वयः समुच्चीयते ॥ इत्यादावित्यादिपदाद्, "वागर्थाविव सम्पृक्तौ” “पार्व्वतीपरमेश्वरौ वन्दे” इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः । इवार्थस्य कर्मत्वान्वयबोधकासम्भवश्च संगृह्यते । यदि च विशेषणविभक्तिरभेदार्था, साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वय एव । उस्रसदृशशराणां समानाधिकरपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि सः । न दर्पणः एवञ्च कारकानन्वयितावच्छेदकरूपेणोप स्थितेऽर्थे कारकान्वयासम्भवेन तदर्थकतृतीयाया असम्भवादिति भावः । *सम्भवे वेति । वाकारोऽनास्थायाम् । अव्यये वशब्दस्य क्वाप्यदृष्टत्वात्तदभ्युपगमे तु ततो विभक्तेस्तच्छ्रवणस्य च दुर्निवार्य्यतैव स्यादिति दूषणान्तरमाह *उस्त्रपदोत्तरेति । अनन्वयप्रसङ्ग इति । वाचकतावादिमत इति शेषः । इदमुपलक्षणं तृतीयाऽनुपपत्तेः । उस्रस्येवार्थसदृशान्वये उद्धरणकरणत्वस्य तत्राभावात् । अस्मन्मते तु उस्रसदृशरूपोत्रार्थस्य करणत्वान्न तदनुपपत्तिरिति भावः । तदुत्तरं सुब्व्यतिरिक्तप्रत्ययश्रवणत्वापाद्यत्वासम्भवेन समुच्येयासम्भवमाशङ्कय चकारस्यान्यत्राप्रकर्ष इत्याह-* सुपां श्रवणञ्चेति । चकारसमुच्चयं दर्शयति-*उत्रपदोत्तरतृतीयेति। तृतीयायास्तदर्थस्य अनन्वयमेव स्पष्टयति-उस्रसदृशेत्यादि । तत्तत्पदा - र्थानामित्यर्थः। *भेदेनान्वयेति । समानाधिकरणनामार्थयोरित्युक्तव्युत्पत्तेरिति भावः । ननु तर्ह्यभेदान्वयस्तत्र स्यादत आह-बाधादिति । सादृश्यस्य भेदघटितपरीक्षा *श्रवणा इति हर्युक्तेरिति । *सम्भवे वेति । अत्र वाशब्दोऽनास्थायाम् । इवार्थस्य कारकत्वव्याप्यधर्मवत्वेनोपस्थितेः । केनाप्यभ्युपगमस्याकृतत्वात् । प्रसङ्गादिति । “चादयोऽसत्वे" इतिसूत्रेण निपातसंज्ञाया असत्व एव विधानेन तस्य सूत्रस्याप्रवृत्तौ निपातत्वाभावादव्ययत्वस्याप्यभावेन तृतीयायाः श्रवणप्रसङ्ग इत्यर्थः । *अनन्वयप्रसङ्गादिति । इवशब्दस्य वाचकतावादिमते सादृश्य एवोत्रस्य निरूपितत्वसम्बन्धेनान्वयेन तृतीयाया अन्वयप्रसङ्गादित्यर्थः । इदं तृतीयायाः सत्वमभिप्रेत्य । वस्तुतस्तु — उक्तरीत्योद्धारणानन्वयेन तृतीयायाः श्रवणरूपोत्पत्तिरेव न स्यात् । तृतीयापदं तृतीयार्थकम् । उस्रपदार्थस्य स्वातन्त्र्येण क्रियान्वयपक्ष एवोरुपदोत्तरस्तृतीया करणत्वार्थिकेति वक्तुं शक्यम् । यदि तु विशेषणवाचकपदोत्तरविभक्तेः साधुत्वमात्रार्थत्वमभेदो वा तस्या अर्थः, तदा कथमेतदित्याशङ्कायामाह -*यदि चेति । उखसदृशशराणामिति वाचकत्ववादिमते इवार्थः सदृशः शर एव सन्निधानादित्यभिप्रेत्यैवमुक्तम् । *भेदेनेति । इवार्थे सादृश्ये उस्रपदार्थस्य निरूपितत्वसम्बन्धेनान्वयासम्भव इत्यर्थः । समानाधिकरणप्रातिपदिकार्थयोरभेदेनैवान्वयस्य व्युत्पत्तिसिद्धत्वादित्याशयः । यदि त्वभेदेनैवान्वयं ब्रूषे तदाप्याह -* बाधादितिः । इवपदार्थतावच्छेदके सादृश्येति निरूपितत्व सम्बन्धि ३३१
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy