SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ निपातार्थ निर्णयः । ये बीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयतेद्योतकाः प्रादयो येन निपाताश्चादयस्तथा ॥ उपास्येते हरिहरौ लकारो दृश्यते यथा ॥ ४२ ॥ ३२३ येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयो निपातास्तथा= द्योतका इत्यर्थः । अयम्भावः - ईश्वरमनुभवतीत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः । भवतीत्यत्राप्यापत्तेः । नोपसर्गार्थः । तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानम्वयापत्तेः । प्रत्ययानां प्रकृत्यर्थान्वित दर्पणः त्याह—*अयम्भाव इति । *न धात्वर्थ इति । न तत्प्रयोगाऽन्तर्गतधातु शक्य इत्यर्थः । *आपत्तेरिति । अनुभवादिप्रतीत्यापत्तेरित्यर्थः । *नोपसर्गार्थ इति । न तद्धातुसमभिव्याहृतप्रादिशक्य इत्यर्थः । *अनन्वयापत्तरिति । एतच्चानुभवादिमात्रप्रतीतिमभ्युपेत्य । वस्तुतस्तथा स्वीकारेऽक्रियार्थकत्वेन अनुभवादेर्धातुत्वानापतेरिति बोध्यम् । नन्वनुभवार्थकत्वेऽपि तस्य फलस्थानीयत्वेन तदन्वयिव्यापारसामान्याऽर्थकान्वापरीक्षा नचैवं घटमानयतीत्यादौ घटादिशब्दस्यैव घटकर्मत्वे लक्षणास्वीकारेण घटकर्मकानयनादिप्रतीतिसम्भवे प्रत्ययस्यापि शक्तिविलोपापत्तिरिति वाच्यम् । कर्मत्वपर्यन्तस्य प्रातिपदिकार्थत्वस्यानयने भेदसम्बन्धेनान्वयो न स्यात् । नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयबोधस्याव्युत्पन्नत्वात् । नचैवं घटकर्मके लक्षणास्त्विति वाच्यम् । व्याकरणे – “कर्मणि द्वितीया" इत्यादेः शक्तिग्राहकत्व सिद्धान्तव्या कोपापत्तेः । न च तथापि घटमानयतीत्यादौ प्रतीयमानैकत्वे घटादिपदस्य स्वार्थसम्बन्धे लक्षणास्तु द्वितीयायाः कर्मत्वमात्रे शक्तिरस्त्विति वाच्यम् । क्लृप्तशक्तिकत्वस्योभयत्राविशिष्टत्वस्य घटादिपदस्य तत्र लक्षणा द्वितीयाया वेत्यत्र विनिगमकाभावात् । तस्मादुपसर्गाणां द्योतकत्वमेव । उपसर्गसंज्ञा तु क्रियायोग एवेति क्रियावाचकधातुप्रयोगे तेभ्य एव द्योत्यार्थविशिष्टक्रियाबोधः । यत्र न क्रियावाचकधातोः प्रयोगस्तत्र तेषामुपसर्गत्वाभावेनास्तु शक्तत्वम् । अत एव निविशत इत्यत्र द्योतकस्यापि निर्मक्षिकमित्यत्र ध्वंसवाचकता; उपकरणमित्यत्रोपसर्गस्य द्योतकत्वेऽप्युपकुम्भमित्यत्र समीपवाचकत्वेऽव्ययीभावः सङ्गच्छते । *चादय इति* । घटः पटइचेत्यादिभ्यः परसमुदितो घट इत्याद्यर्थप्रतीतेरनुभवसिद्धतयाऽन्वयव्यतिरेकाभ्यां वाचकत्वस्य सिद्धेः । वैषम्ये प्राद्यपेक्षया चादिषु वैषम्ये यथा प्रादिद्योत्यार्थस्य धात्वर्थे विशेषणता, तथाचादिद्योत्यार्थस्यापीति न वैषम्यम् । तथा द्योतका इत्यनेन द्योतकत्वस्य समर्थनेऽपि येनेति तृतीया तस्य नोत्तरार्धोपात्तानुरोधेनैव चादीनां द्योतकत्वमिति । किञ्च यदपि तत्र साधकमस्तीत्याशयेनाह— *अयम्भाव इत्यादिना* 1 *न धात्वर्थः— नैतत्प्रयोगघटकस्य धातोरर्थः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy