SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ अथ निपातार्थनिर्णयः। प्रादयो द्योतकाश्चादयो वाचका इति नेयायिकमतमयुक्तम् । वैष. दर्पणः अथ निपातार्थनिर्णयः । प्रासङ्गिकं निपातोपसर्गार्थनिरूपणमित्याशयेन मूलमवतारयति-*प्रादयो द्योतका इति । द्योतकतारूपशक्तिमन्त इत्यर्थः । अत एव 'प्रजयति' इत्यादौ न प्रकर्षाद्यर्थस्य विशेष्यतेति भावः । मतान्तरे तु तात्पर्य्यग्राहकत्वं द्योतकत्वं वक्ष्यति । तत्र येनेत्यत्र यच्छब्दो नोत्तरार्द्धपठितहेतुमानपरामर्शकः; किन्तु हेत्वन्तरपरामर्शकोऽपी परीक्षा अथ निपातार्थनिर्णयः। शक्त्यर्थनिरूपणप्रसङ्गात् द्योत्यार्थमपि निरूपयति-*प्रादय इत्यादिना* । *द्यो. तका इति । न च द्योतकताव्यञ्जनैव, सा च न नैयायिकसम्मतेति कथमेतदिति वाच्यम् । तन्मते द्योतकत्वेन समभिव्याहृतगता या वृत्तिस्तबोधकत्वमेव । तस्य च प्रजयतीत्यादौ प्रशब्देऽपि सम्भवः । धातोः प्रकर्षविशिष्टजपे लक्षणायाः स्वाकारात्। प्रशब्दस्तु तत्र तात्पर्यग्राहकः । अन्ये तु प्रकर्षः प्रशब्दार्थस्तस्य समभिव्याहृतधात्वर्थे प्रकारतया भानम् । नामार्थधात्वर्थयोर्भेदेन नान्वयबोध इति नियमो निपातातिरि. क्तविषयकः । अत एव मीमांसकमते 'न कलञ्जम्भक्षयेत्' इति वाक्यात् कलाभक्षणाभावविषयक कार्यमिति बोधः । तस्मादेव धात्वर्थे कलाभक्षणे लिङर्थस्य बलवदनिष्टाननुबन्धित्वस्याभावविषयकबोधो नैयायिकमते । नचोपसर्गस्य वाचकत्वे प्रतिष्ठत इति यत्र प्रयोगस्तत्रापि स्थितिप्रकर्षप्रत्ययः स्यादिति वाच्यम् । द्योतकत्ववादिनाsत्रस्थधातुर्गतिवाची 'धातूनामनेकार्थत्वात् । प्रशब्दस्तद्गतादित्वस्य द्योतक इति वाच्यम् । तद्वन्मयापि धातोः स्थितेः प्रशब्दाद्गतादित्वस्य प्रतीतेः स्वीकारात् । निपातानामनेकार्थतया प्रकर्षवदादित्वेऽपि शक्तिरित्यभ्युपगमात् । आदित्वञ्च-तद्विषयककृतिध्वंसासमानकालिकत्वम् । तादृशानुपूर्व्याः प्रकर्षविशिष्टगतिनिवृत्तिविषयकबोधजनने निराकाङ्कत्वमिति तूभयमतेऽपि कल्पनीयमित्याहुः। तदपेशलम् । धातूनामनेकार्थ. त्वस्य सर्वसम्मतत्वेन धातुभ्य एव प्रजपति प्रणमतीत्यादौ प्रकर्षविशिष्टजपनत्योः प्रतीतिनिर्वाहे प्रशब्दस्य पृथक्शक्तिकल्पनस्य गौरवपराहतत्वात् । अनेकार्थशब्दादेकस्यार्थस्यैव प्रतीतो तात्पर्य ग्राहकस्यावश्यमपेक्षेति प्रशब्दस्य तात्पर्यग्राहकतयोपयोगात् । किञ्च प्रशब्दस्य प्रकर्षे शक्तिरित्यनुचितम् । धातुं विना केवलात्तस्मात् प्रकर्षप्रतीतेरनुभवविरुद्धत्वात् । शक्याभावेन लक्षणापि न । एतेन प्रजपतिप्रणमती. त्यादौ प्रशब्दस्यैव प्रकर्षविशिष्टजपनत्योर्लक्षणा ; धातुस्तत्र तात्पर्य ग्राहक इति परास्तम् । प्रत्ययानाम्प्रकृत्यान्वितस्वार्थबोधकतया प्रशब्दलक्ष्यार्थे प्रत्ययार्थानन्वयप्रसङ्गाच्च ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy