________________
नअर्थनिर्णयः।
३२१ वत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्तद्रूपेण बोधादित्याद्यन्यत्र विस्तरः॥४१॥
इति वैयाकरणभूषणसारे नअर्थनिर्णयः ॥ ७॥ .
दर्पणः न घटः' इत्यादावन्योन्याभावबोधस्तन्नियामकं त्वादावेवोक्तम् । परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतननादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाङ्क्षघटाद्युपस्थापकपदसमभिव्याहृतनञ्पदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नीलघटादिप्रकारकशाब्दबुद्धित्वस्य च कार्य्यतावच्छेदकत्वोपगमान्न'नीलघटो न घट' इत्यादिप्रयोगप्रसक्तिः, भवति च 'पीतो घटो न नीलघट' इत्यादिप्रयोगोपपत्तिरित्यायन्यतोऽवधाय॑मित्याशयवानाह*इत्याद्यन्यत्र विस्तर इति* ॥ ४१॥
इति भूषणसारदर्पणे नमर्थनिरूपणम् ॥ ७ ॥
परीक्षा च्छिन्नत्वलाभेन समवायेनेति शब्दात्पुनस्तदानस्वीकारे पौनरुक्त्यादिति वाच्यम् । उक्तनियमवशाधन समवायेनेत्यादिपदसमभिव्याहारो नास्ति; तत्र तत्तत्सम्बन्धाव. च्छिन्नत्वं प्रतियोगितायामेव भासते, यत्र तु समवायेनेत्यादिसमभिव्याहारस्त: त्राभावांशे समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य प्रकारतया भानमित्यङ्गीकारादिति दिक् ॥ ४१॥
इति श्रीभूषणसारे नार्थविवरणम् ॥ ७ ॥
४१ द० प०