________________
३२०
दर्पणपरीक्षासहित भूषणसारे
दर्पणः अत्र वदन्ति-यत्र नसमभिव्याहारे प्रतियोग्यनुयोगिनोराधाराधेयभावसंसर्गबोधोपयिकाकाङ्क्षाः तत्रैव नमोऽत्यन्ताभावार्थकत्वोपगमेन नोक्तस्थले तबोधापत्तिः । तत्र न[समभिव्याहारे तादृशबोधौपयिकालाविरहात् । 'न पचति चैत्रो 'नेदं चैत्रस्य' इत्यादौ नसमभिव्याहारे तिर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापितचैत्रादा षष्ट्यर्थस्वत्वस्येदंपदार्थ आधाराधेयभावबोधौपयिकप्रथमान्तपदादिसमभिव्याहाररूपाकाटायाः सत्त्वेन तत्र नजा कृत्याद्यभावबोधनसम्भवात् । ___ एवञ्च यत्र प्रतियोग्यनुयोगिनोराधाराधेयभावः सप्तमी विनाऽनुपपन्नस्तत्राऽनुयो. गिवाचकपदात् सप्तम्यपेक्ष्यते । यथा 'भूतले न घट' इत्यादौ । तदुक्तं दीधितिकृता'वस्तुतो न पचति चैत्रो नेदं मैत्रस्येत्यादा विभक्त्यर्थकृतिसम्बन्धादेरभावस्य बोधने ना सप्तमी नापेक्ष्यते, अपेक्ष्यते च प्रातिपदिकार्थस्येति" इति ।। ____ न च 'चैत्रो न पचति' इत्यादौ नजाख्यातार्थभावनाभावबोधने, चैत्रौ न पचतश्चैत्रा न पचन्तीत्यादौ द्विवचनाद्यनुपपत्तिः। भवन्मते भावनाऽन्वयिनि संख्यान्वयनियमेन भावनान्वयिन्यभावे द्वित्वाद्यभावेन द्विवचनादिना तस्य बोधयितुमशक्यत्वात् । वैयाकरणमते तु तत्र धात्वर्थक्रियाभावस्यैव ना बोधनेन द्वित्वादिविशिष्टचैत्रकर्त्तकक्रियाभाव इति बोधाऽभ्युपगमेन तादृशानुपपत्त्यभावादिति वाच्यम् । __नसमभिव्याहारे भावनाभावान्वयिनि तिङर्थसङ्घयान्वय इति व्युत्पत्त्यन्तराभ्युपगमेन द्विवचनाद्युपपत्तेः । त्वन्मन्तेऽपि यच्चैत्रकर्त्तकः पाकोऽप्रसिद्धस्तत्र चत्रो न पचतीति प्रयोगानुपपत्त्या क्रियाप्रतियोगिकाभावस्य नजा प्रत्याययितुमशक्यत्वाच्च।
न च तत्र नजा भेद एव बोध्यते । प्रतियोगितया चैत्रादिविशिष्टस्य तस्याऽऽख्या. तार्थकर्त्तव्येवाऽन्वयान्न तादृशप्रयोगानुपपत्तिरिति वाच्यम् । तथा सति प्रतियोगितासम्बन्धावच्छिन्नधात्वर्थप्रकारकबोधे असमस्तनपदजन्योऽपस्थितेहेतुत्वस्यात्रैव व्यभिचारेण त्वत्सिद्धान्तव्याघातात् । नसमभिव्याहारे आख्यातार्थभावनाऽन्वय्यर्थकत्ववत् तत्समभिव्याहारे भावनान्वय्यर्थकत्वरूपसामानाधिकरण्यस्य युष्मदादौ सत्त्वान्न न त्वं पचसीत्यादौ मध्यमादिपुरुषानुपपत्तिः । ___ यद्वा-नन्समभिव्याहारे स्वबोधकर्तत्वबोधकत्वम् , तत्समभिव्याहारे तु भूतपूर्वं तदादाय पुरुषोपपत्तिरित्याहुः । __ इदं त्ववधेयम्-नसमभिव्याहारे प्रतियोग्यनुयोगिनोर्यः सम्बन्धो भासते तत्समभिव्याहारे तत्सम्बन्धावच्छिन्नतदभावस्तदनुयोगिनि भासत इति व्युत्पत्तेर्न भूतले
परीक्षा
योगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदसमभिव्याहारवशादू भानेन निर्वाहात् 'प्रतियोग्यनुयोगिभावान्वयौ तुल्ययोगक्षेमौ' इति नियमस्य नसमभिव्याहारे प्रतियोग्यनुयोगिनोर्यत्सम्बन्धावच्छिन्नाश्रयत्वप्रकारकबोधौपयिकाकासा तत्सम्बन्धावच्छिन्नप्रतियोगिताकाधेयाभावास्यापि भानमित्यप्यर्थः । न च जले समवायेन नीलरूपन्नास्ति' इतिशब्दान्नीलरूपाश्रयतायां समवायसम्बन्धावच्छिन्नत्वस्य पृथग्भानाभ्युपगमो भवता कार्य्यः । स च न सम्भवति । उक्तनियमेनैव सम्बन्धाव