SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ नबर्थनिर्णयः। ३१९ दर्पणः धित्वाऽनुरोधेनाकाङ्क्षाबलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धविधया भानस्योपगन्तव्यत्वात् । ___ नन्वन्योन्याभावसाधारणाभावत्वस्य नपदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे पृथ. शक्तिकल्पनानर्थक्यम् । नचाऽन्योन्याभावत्वप्रकारकबोधानुरोधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यकत्वम् । अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिप्रकारकोऽयं घट इति बोधे, नाऽयं घट इति वाक्यजबुद्धरप्रतिबन्धकत्वापत्तेः । अन्योन्याभावत्वावगाह्यभावबुद्धेरेव तादृशत्रुद्धिविरोधित्वात् । घटाभाववानिति बुद्धेरपि तद्विरोधित्वापत्तेश्चेति वाच्यम् । तत्राभावत्वस्य नञ्पदशक्त्या तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः समभिव्याहाररूपाकाङ्क्षाबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्याऽन्योन्याभावत्वावगाहितयैव त. त्तबुद्धः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याकिञ्चित्करत्वात् । न च नास्त्येव तदवच्छिन्ने शक्तिः पृथगुपादानं त्वभावसामान्यस्य नअर्थत्वा. लाभायैवेति वाच्यम् । तथा सति "नजाः षट् प्रकीर्तिताः" इत्यस्यासङ्गत्यापत्तेरिति चेत् ? स्यादेवम् । यद्यन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपं निर्वक्तुं शक्येत, तदेव नः संयोगितादात्म्यस्य संयोगरूपतया संयोगात्य. न्ताभावेऽतिव्याप्तिः । सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतानिवेशेऽपि संयोगसंबन्धावच्छिन्नसंयोगधर्मावच्छिन्नप्रतियोगिताकाऽत्यन्ताभावातिव्याप्तितादवस्थ्यात्, किन्त्वनुयोगिताविशेष एव । एवञ्च तादात्म्यस्याप्यन्योन्याभावप्रतियोगितावच्छेदकसम्बन्धत्वमपि प्रामाणिकम् । इह संयोगेन घटो नास्तीतिवदर्य तादात्म्येन घट इत्यादिप्रत्ययात् । एवञ्च तादृशानुयोगिताविशेषप्रकारताकत्वमेवाभेदसम्बन्धेन प्रति. योगिप्रकारकधीविरोधित्वे तन्त्रमिति तदनुरोधेन नञः पृथगन्योन्याऽभावे शक्ति. रावश्यिकेति । ननु ननोऽविशेषेणात्यन्ताभावबोधकत्वे 'भूतले न घट' इत्यादिवाक्यजबोधेऽत्यन्ताभावभानापत्तिः । न च नञ्पदजन्यात्यन्ताभावबोधेऽनुयोगिवाचकपदोत्तरसप्तमी. समभिव्याहारज्ञानस्य हेतुत्वानोक्तापत्तिरिति वाच्यम् । 'चैत्रो न पचति' इत्यादिवाक्यजभावनात्यन्ताभावबोधे व्यभिचारेणोक्तकार्यकारणभावस्यैवासम्भवादिति चेत् ? परीक्षा सिद्धान्तितत्वेन चैत्रकर्तृकपचिक्रियेत्येव बोध इति, चैत्रविशेष्यकसामवायसंसर्गकक्रि. याप्रकारकबोधस्याभावेन कथमुक्तन्यायेन समवायसम्बन्धावच्छिन्नक्रियाभावभानमिति वाच्यम् । चैत्रकर्तृकत्वत्राश्रयकत्वम् । आश्रयता च-किञ्चित्सम्बन्धावच्छिन्नैवेति, प्रकृते समवायसम्बन्धावच्छिन्नाश्रयतायाश्चैत्रनिष्ठायाः क्रियानिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकतया भानेन नासमभिव्याहारे तत्सम्बन्धावच्छिन्नप्रतियोगिताकक्रियाभावभानस्याप्यङ्गीकारात्। एवम् 'घटो न पट' इति शब्दादप्यन्योन्याभावस्य बोधः सम्भवति । अभावत्वावच्छिन्नस्य नजा तत्र तादात्म्यसम्बन्धावच्छिन्नप्रति
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy