________________
३१८ दर्पणपरीक्षासहित भूषणसारेअसमस्तनञः क्रियायामेवान्वयबोधात् । स चाभावोऽन्त्यन्ताभा
दर्पणः *स चेति ॥ अभावश्चेत्यर्थः ॥ तथाच नोऽन्योन्याभावत्वेनात्यन्ताभावत्वेन वाऽभावे शक्तिकल्पनान्न दोषः।
*अत्यन्ताभावत्वेति। अन्तं = स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वमतिक्रान्तो व्यभिचरितोऽत्यन्तः । सचासावभावश्चेति विग्रहः । तस्य भावस्तत्वम् । स्वप्रतियोगिनिष्ठस्वशाभावप्रतियोगित्वव्यभिचारीतियावत् । “अन्त्यो जघन्यं चरमम्" इत्यमरेणाऽन्त्यशब्दस्य जघन्ये वृत्तिबोधनाज्जघन्यत्वं चोक्तार्थस्य जघनवृत्तिबोध्यत्वात् । घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्तिधमें सत्त्वात्तत्त्वं तत्राऽक्षतम् । घटान्योन्याभावस्य तु स्वप्रतियोगिनिष्ठान्योन्याभावप्रतियोगीत्वव्यापकत्वात्तव्यावृत्तिः । व्युत्पत्तिप्रदर्शनं चेदम् । लक्षणं त्वत्यन्ताभावस्य तादात्म्येतरसम्बन्धावच्छिन्न प्रतियोगिताकाभावत्वम् ॥ *अन्योन्याभावेति ॥ अन्योन्यस्मिस्तादात्म्येनाभावोऽभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्धावच्छिन्नप्र. तियोगिताकाभावत्वमन्योन्याभावत्वम् । ताभ्यां शक्य इत्यर्थः।
वस्तुतस्तु अत्यन्ताभावस्याभावत्वेनैव शक्यता, न तूक्तरूपेण, गौरवात् । तेन रूपेण बोधस्याननुभवाच्च । अत एव "तत्सादृश्यमभावश्च" इत्यत्राभावत्वेनैवात्यन्ताभावोपादानम् । __नच नञः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वादिनाऽभावे शक्त्यनभ्युपगमे भूतले न घट' इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धेविरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नतद्विशिष्टबुद्धौ तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभावबुद्धेः प्रतिबन्धकत्वादिति वाच्यम् ।
निरुक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतरूपेणैव निवेशनीयतया नञ्पदशक्त्याऽप्यभावे विशिष्यसंयोगाऽवच्छिन्नप्रतियोगिताकत्वभानासम्भवात् प्रतिबन्धकत्वाऽनुपपत्तितादवस्थ्यात् । तादृशविशिष्टबुद्धिविरो
परीक्षा त्यनुपपन्नमताआह-*स चेति । अत एव 'न पचति मैत्र' इति शब्दान्न भेदस्याभावत्वेन बोधः । *अत्यन्ताभावत्वेनैवेति । अत्यन्ताभावत्वेनैवेत्यपि न 'अयं चैत्रो न मैत्र' इति शब्दाभेदत्वेन बोधान्यापत्तेः । अत्यन्ताभावत्वम्-नित्यत्वे सति संसर्गाभावत्वम् । तादात्म्यत्वेन तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमन्योन्या. भावत्वम् । वस्तुतस्त्वभावत्वमेव शक्यतावच्छेदकम् । नत्वत्यन्ताभावत्वादिकं चैत्रो न पचति' इति शब्दाच्चैत्रकर्तृकपचिक्रियाभाव इति प्रतीतेरनुभवसिद्धत्वात् । नचैवं सति 'न पचति चैत्र' इति शब्दादभेदबोधस्यापत्तिरिति वाच्यम् । 'प्रतियोग्यनुयोगि भावान्वयौ तुल्ययोगक्षेमौ' इति न्यायेनोक्तार्थकेन तत्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधस्यैव सम्भवेनोक्तस्थले तदसम्भवात् । न च 'चैत्रो न पचति' इति वाक्यघटकस्य नमोऽत्यन्ताभावबोधकतया तदसमभिव्याहारमते क्रियाविशेष्यकबोधस्यैव