SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ - नबर्थनिर्णयः। .. सेवनान्वयबोधनाय चैकवचनं, न तूत्तरपदाऽर्थप्राधान्यप्रयुक्तम् । अत एव "पतन्त्यनेके जलधेरिवोर्मयः” इत्यादिकमपि सूपपादम् । मत्वं भवसीत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा । नञ् द्योतकः । तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात् पुरुषव्यवस्था। त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः । एवं 'न त्वंपचसि इत्यत्र त्वदभिन्नाश्रयक-पाकानुकूलभावनाऽभावः। घटो नास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः। दर्पणः नाऽन्वयबोधायेत्यर्थः । उपसंहरति-*न त्विति । *अत एवेति । अनेकशब्दस्यैकभिन्नार्थकत्वादेवेत्यर्थः। *सूपपादमिति । भेदप्रतियोग्येकार्थकत्वे तु तद् दुरुपपाद स्याद् । एकशेषेण समर्थनं त्वगतिकगतिरिति भावः। भाष्योदाहृते "नैकस्तिष्ठति" इति प्रयोगे जन इत्यध्याहार्यम् । प्रत्येकं स्थित्यन्वयबोधार्थ च तत्रैकवचनम् । अनेको जना इति त्व. साध्वेव । उत्तरपदार्थप्राधान्यादिव्यपदेशस्तु प्रायिक इत्याद्यपि बोध्यम् । अत्वं भवसीत्यादिनाऽनहम्भवामीत्यादिर्गह्यते । युष्मद इत्यस्मदोऽप्युपलक्षणम् । एवं त्वद्भिन्न इत्यत्रापि लक्षणेति तु नैयायिकाद्यनुसारेण । स्वमते तदनभ्युपगमात् । अत्वम्भवसी. त्यादावारोपादिबोधस्य सर्वानुभवविरुद्धत्वान्नसमासे सर्वत्रोत्तरपदस्य स्वार्थभिन्नलाक्षणिकत्वमेव युक्तमिति भावः ॥ प्रसज्ज्यप्रतिषेधार्थकनको व्यवस्थामाह-*एवं न त्वं पचसीत्यादि** ॥ नगर्थे युष्मदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्धयेदितिसूचयितुं पचसीति मध्यमपुरुषनिर्देशः । अधिकं त्वादावेवोक्तम् । इदमुपलक्षणं 'घटौ न स्त' इत्यादौ द्विवचनाद्य नुपपत्तेः । क्रियाप्रतियोगिकाभावविशेष्यकबोधे हेतुमाह-*असमस्तेति* ॥ व्याख्यानात् नमस्तदर्थस्य प्रसज्ज्यप्रतिषेधस्य तादृशनार्थाऽभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधो, धातुजन्योपस्थितेर्भावनात्वावच्छिन्नविशेष्यतासम्बन्धेन हेतुत्वस्य पूर्वमुक्तत्वादिति भावः । नन्वभावस्य केन रूपेण शक्यता । न तावदभावत्वेन । चैत्रो न पचतीत्यादावपि भेदबोधापत्तेः। प्रसज्यप्रतिषेधत्वेन शक्यत्वेऽपि स एव दोषः । भेदस्याऽपि योग्याsनुपलब्धिजन्यप्रत्यक्षविषयत्वात् । तदनुपस्थितावपि नजोऽभावबोधाच्चेत्यत आह परीक्षा क्तं तत्त्विष्टमिति भावः । यत्र तु प्रामाणिकोऽनेकशब्द एकवचनान्तोऽस्ति; विशेष्यवाचकन्तु पदन्न श्रूयते, तत्र तात्पर्यानुरोधेन विशेष्यवाचकम्पदमध्याहार्य्यम् । उत्तरपदार्थप्रधानस्तत्पुरुष इति तु व्यवहार औत्सर्गिक इत्युक्तमेव । प्रागुक्तामनुपपत्तिम्प. रिहरति-*अत्वमित्यादिना*। *लक्षणा*-उत्तरपदस्य लक्षणा। ननु यत्र नजः क्रियान्वय्यर्थप्रतिपादकता तत्र कथम्बोध इत्यत आह-*नत्वम्पसीति । ननु मूले अभावो वेत्येवोक्तम् । शाब्दबोधेऽभावस्य तु भेदत्वादिना भानमि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy