SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३१६ दर्पणपरीक्षासहिते भूषणसारेमानं सुब्ग्रहणं विशेष्यमेकवचनान्तमेव । किञ्चाऽनेकशब्दाद् द्विवचनोपादाने, बहूनां बहुवचनोपादाने द्वयोर्बहुव्रीहिर्न सिद्धयेदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकं वा । _ "सेव्यतेऽनेकया" इत्यत्रापि योषयेति विशेष्यानुरोधात् प्रत्येकं दर्पणः मित्यत्र प्रमाणाभावोऽत आह-*किञ्चेति । नन्वनेकशब्दोपादानादेव द्वयोर्बहूनां वा तत्सिर्द्विवचनबहुवचनयोरपि समयपरिपालनार्थत्वसम्भवादेकवचनोपादानं व्यर्थमेवेत्यत आह-*औत्सर्गिक वेति । "एकवचनमुत्सर्गतः करिष्यते” इति, "न केवला" इतिनियममूलकवचनविहितमित्यर्थः । सति तात्पय्ये क्वचित् सार्थकमप्येकव. चनमिष्यत एवेत्याह-*प्रत्येकमिति । एकभिन्नत्वेनोपस्थितासु योषासु प्रत्येक सेव. परीक्षा ख्यावत्वेऽपि वचनं समानमेवेत्यत्र सूत्रकारानुग्रह इति यदि ब्रूयात्तत्राप्याह-*किञ्चेति* । *बहुनामिात । अस्य बहुव्रीहिर्न सिध्येदित्यत्रानन्वयः । *जात्यभिप्रायम् । एकभिन्नरूपसामान्यधर्माभिप्रायम् । यथा 'सम्पन्नो व्रीहिः' इति प्रयोगो बहुषु व्रीहिषु सम्पन्नेष्वेव जायते, तत्रैकवचनार्थस्यैकत्वस्य स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन विशेष्येऽन्वयः स्वीक्रियते; तथैकभेदस्य द्विबहुसाधारणस्यैकत्वादेकवचनमिति भावः । न च विशेष्यवृत्तिप्रतियोगिताकस्य व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्यानुपगमेन कथमेतदिति वाच्यम् ? स्वसजातीयद्वितीयरहितत्वरूपैकत्वस्य तत्रासत्वे न तदवच्छिन्नप्रतियोगिताकभेदस्य सम्भवात् सम्पन्नो व्रीहिरिति वाक्यं यत्र सम्मतिः-सन्तोषसम्पादिकाः तत्रैव प्रयुज्यत इति तत्रास्तु तथा, प्रकृते तु किं साधकम् , द्वयोर्बहूनां च समाससिद्धिरूपं प्रयोजकत्वेनैकशब्दापादानं सामर्थ्यादेव भविष्यतीत्यत आह-*औत्सर्गिकमिति* । 'एकवचनमुत्सर्गतः करिष्यत' इति भाष्यीयसिद्धान्तमाश्रित्यैकवचनकृतम् । अन्यथा प्रातिपदिकमात्रोपादानेन "केवला प्रकृतिः प्रयोक्तव्या” इति वचनविरोधः स्यादिति भावः।। ___ न केवलं विशेष्यानुरोध एव; किन्तु सार्थकमपि तदित्याह-*प्रत्येकमिति । एकभिन्नत्वेनोपस्थितासु योषासु पृथक् पृथक् सेवनान्वय विवक्षयेत्यर्थः। अत एव अनेकशब्दस्यैकभिन्नार्थकत्वादेव । यदि प्रतियोगितासम्बन्धेन भेदविशिष्टमेकमित्यर्थः स्यात्तदोर्मय इत्यनेन विशेष्यस्य बहुत्ववत्वेनोपस्थितत्वात्तत्र भेदविशिष्टैकाभेदस्य बाधादनन्वयापत्तिः । नचैवमप्यन्वयानुपपत्तिः। नगर्थे भेदेऽन्वयितावच्छेदकावच्छि. नप्रतियोगिताकत्वसम्बन्धेनैवान्वयो व्युत्पत्तिसिद्धः । अन्यथा ब्राह्मणेऽपि व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकब्राह्मणभेदस्य सत्वादब्राह्मण इति प्रयोगापत्तिः स्यात् । तथाचैकत्वावच्छिन्नप्रतियोगिताको भेदो वाच्यः, सचाप्रसिद्ध एवेति वाच्यम् । स्व. सामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगित्वानिरूपकभेदविशिष्टविशेष्यतावच्छेदकत्वमेवानेकत्वमित्यर्थस्य विवक्षितत्वात्। सच भेदस्तत्तद्वयक्तिप्रयोगिको बोध्यः । गगनघटोभयभेदमादाय गगनमनेकमिति व्य. वहारापत्तिवारणाय व्यासज्यवृत्तीत्यादि । क्वचित्त्वनेके इत्यत्रैकशेषेण बहुवचनमित्यु.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy