SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ - नअर्थनिर्णयः। ३१५ नसमासे, "एतत्तदोः सुलोपोऽकोरनसमासे हलि" (पा०. सू० ३६।१।३२) इति ज्ञापकात् सर्वनामसंज्ञा नानुपपन्ना । 'अस: शिव' इत्यत्र सुलोपवारणायाऽनसमास इति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामताऽस्ति । गौणत्वात् । अकोरित्यकचसहितव्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात् । तथाचानसमास इति ज्ञापकं सुवचम् । . - "अनेकमन्यपदार्थे, इत्यादावेकवचनं विशेष्यानुरोधात् । "सुबामन्त्रिते पराङ्गवत् स्वरे” (पा० सू० २।१२) इत्यतोऽनुवर्त. दर्पणः निरूपितत्वं सप्तम्यर्थः । उत्तरपदार्थरूपप्रतियोगिनिष्ठविशेषणतानिरूपितविशेष्यताश्रयो नमर्थ इति यावत् । ननु तद्युत्तरपदार्थाऽप्राधान्ये पूर्वोक्तदूषणगणो दुष्परिहारोऽत आह-*अयम्भाव इति*। *गाणत्वेऽपीति । नसमासघटकैतदाधर्थस्य नजर्थविशेषणत्वेऽपीत्यर्थः । *ज्ञापकादिति । तत्सूत्रस्थान्नसमासग्रहणाज्ज्ञापकादित्यर्थः । ज्ञापकतामेव प्रपञ्चयति-*अस शिव इति । ____ "एतत्तदोः" (पा० सू०६।१।१३२ ) इत्यनेन परस्परसाहचर्य्यात् सर्वनामैतत्त यां परस्य सोर्हलि लोपो विधीयते । नञ्तत्पुरुषाऽन्तर्गततत्तदोरुपसर्जनतया सर्वनामत्वाभावादेवानतिप्रसङ्गे व्यर्थ सदनसमासग्रहणं नसमासे गुणीभूतार्थस्यापि सर्वादेः सर्वनामताज्ञापनेन चरितार्थमिति भावः। साहचर्यज्ञापकत्वस्यासार्वत्रिकत्वं सूचयन सूत्रे सर्वनाम्नोरेव ग्रहणे मानान्तरमाह-*अकोरिति । - असर्वनाम्नः सर्वनामविहिताकजसम्भवेन तत्पर्युदासात् सर्वनाम्नोरेव तयोग्रहणं निश्चीयत इत्यर्थः । एतत्कल्पे एतत्तदुत्तरस्य सोर्हलि लोप इति सूत्राऽर्थः । अर्थद्वारकसम्बन्धाश्रयणेन व्याख्यानं तु पूर्वकल्पाभिप्रायेणोत्तरपदलक्षणाभिप्रायेण वेति भावः । *विशेष्यानुरोधादिति । असति विशेषानुशासने विशेषणवाचकपदस्य विशेव्यवाचकपदसमानवचनकत्वानियमादिति भावः । ननु विशेषणस्य विशेष्यसङ्ख्याविरुद्धसंख्यावत्त्वेऽपि विशेषणवाचकपदात्तद्वचन. . परीक्षा त्वेऽपीत्यर्थः । प्रतियोगिनिष्ठप्रकारतानिरूपिताभावनिष्ठविशेष्यताकबोधजनकत्वस्यास इत्यत्रा सत्वादिति भावः । ज्ञापकमुपपादयति-*अस इत्यादिना । *गौणत्वात्। . उपसर्जनत्वात् । एवञ्च स्यदाद्यत्वानापत्या हल्ङ्यादिलोपो दुर्वारः । ननु सर्वनाम्न एव "एतत्तदोः” इति सूत्रे ग्रहणमित्यत्र किम्मानमत आह-*अक इति । विप्रयोगस्यापि विशेषावगतिहेतुत्वमन्यन्त्र दृष्टं तद्रीत्याऽत्रैवम्प्रतीतिरिति भावः। *ज्ञापकमिति* । नसमासे उपसर्जनत्वेऽपि सर्वनामकार्यम्भवतीत्यर्थे इत्यादिः।। ___विशेष्यानुरोधादिति । 'असति विशेषणविवक्षणे विशेषणवाचकम्पदं विशेष्यवाचकपदसमानवचनकमेव इति नियमस्य सर्वत्र दर्शनात् । ननु तत्र विशेष्यवाचकम्पदन्न श्रूयत एवेत्यत आह-*सुबामन्त्रित इति । ननु विशेष्यविशेषणयोविरुद्धसं.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy