________________
३१४ दर्पणपरीक्षासहिते भूषणसारेसंज्ञा । “अनेकमन्य पदार्थे," "सेव्यतेऽनेकया सन्नतापाङ्गया” इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः । 'अब्राह्मण' इत्यादावुत्तरपदार्थप्राधान्यात् तत्पुरुषत्वम् । 'अत्वं भवसि' 'अनहं भवामिइत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते । __ अन्यथा त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिक्ष्वसत्त्वात् पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात् सामानाधिकरण्यं नानुपपन्नमिति भावः। *विशेष्यो वेति* । प्रतियोगिनीति शेषः। अयम्भावः-गौणत्वेऽपि
दर्पणः स्य प्रतियोगितयोत्तरपदार्थान्वये उपपत्तिमाह-*तथाचेति । ____ सर्वनामता चेत्यादि-प्रथमान्तचतुष्टयस्योपपद्यते इत्यनेनाऽन्वयः । *सर्वनामता*-सर्वनामसंज्ञा । तदन्तविधिनेति शेषः । अन्यथा संज्ञोपसर्जनानां सर्वादित्वाभावे तदर्थस्य नअर्थविशेषणत्वे तत्संज्ञानुपपत्तिरिति भावः । अनेकमित्यादावेकभिन्नमिति बोधे स्वीक्रियमाणे एकप्रतियोगिकभेदवति द्वित्वस्य बहुत्वस्य वाऽवश्यम्भावे ततस्तबोधकद्विवचनबहुवचनयोरापत्तिरेकत्वार्थस्य तत्र बाधात्तद्वोधकैकवचनस्यानुपपत्तिश्चेति भावः ॥
*तत्पुरुषत्वमिति । भेदविशेषणत्वे तदनुपपत्तिः स्यात् । *पुरुषेति । तिबादित्रिकसङ्केतिततत्पुरुषेत्यर्थः । *वचनेति । एकवचनत्वादिरूपेत्यर्थः । “अयुवां भवथ" इत्यादौ युष्मदस्मदर्थाभावविशेष्यकबोधे अभावे द्वित्वाद्यर्थस्य बाधाद् द्विवचनाद्यनु. पपत्तिः । भावनाऽन्वयिन्येव सङ्घयाऽन्वय इति त्वदभ्युपगमेनाऽन्याऽर्थगतसङ्ख्यामादाय द्विवचनाद्युपपादनस्य कर्त्तमशक्यत्वादिति भावः। ___*अन्यथेति । नजाभावस्योत्तरपदार्थाऽविशेषणत्वे तद्विशेष्यत्व इति यावद् । *पुरुषव्यवस्थेति । "युष्मद्युपपद" ( पा० सू० ४।१।१०५ ) इति सूत्रद्वयाऽविषयतया, "शेषे प्रथमः” (पा० सू० ४।१।१०८ ) इत्यस्य प्रवृत्त्या प्रथमपुरुषस्यैवापत्तेरित्यर्थः । *नानुपपन्नमिति । तथाचोक्तव्यवस्था सुलभेति भावः । ननु नजर्थभेदस्य प्रतियोगितयोत्तरपदार्थाऽन्वये अघटमानयेत्यत्र स्वभेदप्रतियोगित्वस्य घटे सत्त्वात्तबोधानन्तरं घटानयनस्याऽऽप्यापत्तिरत आह-मूले-*विशेष्यो वेति । विशेषणाकाङ्क्षायामाहसारे-*प्रतियोगिनीति* । उत्तरपदार्थरूपप्रतियोगिनीत्यर्थः।
परीक्षा णत्वस्वीकारस्य प्रयोजनान्याह-*तथाचेत्यादिना*। *तत्पुरुषत्वमिति । उत्तरप. दार्थप्रधान एव तत्पुरुष' इति वादिमताभिप्रायेणेदम् । *पुरुषवचनव्यवस्थेति । युष्मदर्थस्य भेदविशिष्टस्य कर्तृतया युष्मदर्थेन सामानाधिकरण्यस्य सत्वात्पुरुषव्यवस्थाया आदिपदग्राह्ये 'युवां भवथः' इत्यादौ द्विवचनादिव्यवस्थायाश्वोपपत्तिरित्यर्थः। । ___ *अन्यथा-नजर्थाभावस्योत्तरपदार्थाविशेषणत्वे । मूलोक्तविशेष्यत्वपक्षे विशेष्यत्वस्य विशेषणतानिरूपकत्वनियमाद्विशेषणाकाङ्क्षाशान्तये आह-प्रतियोगिनीतीति । एवञ्चास इति शब्दात्तद्भिन्नाश्रय इति बोधः । *गौणत्वेऽपीति । उपसर्जन