SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नबर्थनिर्णयः । ३१३ मन्यथा सादृश्यादेरपि वाच्यतापत्तेः। यत्तु तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः॥ । इति पठित्वा, अब्राह्मणः, अपापम् , अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोऽश्वेभ्यः, अधर्म इत्युदाहरन्ति । तत्त्वार्थिकार्थमभिप्रेत्येतिस्पष्टमन्यत्र । विशेषणमिति प्रतियोगिनीति शेषः। तथाचासर्वपदे सर्वनाम दर्पणः वाचकपदयोः समानविभक्तिकत्वस्येव तयोः समानवचनस्यापि तन्त्रत्वात् , तस्य प्रकृ. तेऽभावात् । अन्यथा 'न महतो राज्ञ' इत्यादाविव न महतां राज्ञः इत्यादावपि महनेदप्रतीत्यापत्तिः। 'एको न द्वौ' इतिवत् कथञ्चित् समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्य नैरर्थक्यप्रसङ्गश्च 'ब्राह्मणेभ्यो दधि दातव्यं कौण्डिन्याय न' इत्यादौ। अत एव कौण्डिन्यभिन्नब्राह्मणोद्देश्यकदधिदानबोधसम्भवादित्याहुः ।। विकल्पप्रसक्तिरूपदोषाऽभावेऽपि वाक्यभेदाऽऽपत्तेर्जागरूकतया समानविभक्तिकत्वादेस्तबोधनियामकस्य सत्त्वेन च नञः पर्युदासार्थकत्वमेव, नाऽनुयाजेष्वित्य. नोचितमिति तु परे॥ प्रकृतमनुसरामः ॥ *अन्यथेति* । लाघवाऽनादरेणाऽऽरोपितत्वस्य न वाच्यत्वा. ऽभ्युपगमे इत्यर्थः । सादृश्यादेरित्यादिना पठिष्यमाणाऽल्पत्वादेः सङ्ग्रहः; अब्राह्मण इत्यादेर्ब्राह्मणसदृशः, पाकाभावोऽश्वभिन्नोऽल्पोदरा गवाश्वेतरा पशवोऽप्रशस्ता धर्मविरुद्ध इत्यादिक्रमेणाऽर्थः । नन सादृश्यादेरवाच्यत्वे कथं ततस्तदबोधोऽत आह*तत्त्विति । तत्पठनं त्वित्यर्थः ॥ *अभिप्रेत्येति । भेदप्रतियोगित्वप्रकारकब्राह्मणादिबोधाऽनन्तरभाविमानसबोधमभिप्रेत्येत्यर्थः॥ ___ ब्राह्मणादिबोधस्य तत्तत्पदादेव सम्भवाद्भेदप्रतियोगित्वेन ब्राह्मणादिबोधनाय यदू ब्राह्मणादिपदोपादानं तत्सादृश्यादिना क्षत्रियादिबोधनार्थमित्यूहमूलकक्षत्रियादिबोधस्य भेदप्रतियोगी ब्राह्मण इत्यादिशक्यार्थबोधोत्तरमेव सम्भवादिति भावः। तबोधे शाब्दत्वप्रत्ययस्याऽनुभवाल्लक्षणयैव सादृश्यादिना ब्राह्मणादिबोध इति त्वन्ये । विशेषणस्य विशेष्यस्याकाडत्त्वादाह-*प्रतियोगिनीति*। एवं चाऽब्राह्मण इत्यादेः प्रतियोगितया भेदविशिष्टो ब्राह्मण इत्याद्याकारको बोध इति भावः । भेद. परीक्षा यबोधकतेति वाच्यम् । अस्याः कल्पनाया वाक्यद्वयजन्यबोधानन्तरमेव सम्भव इति वाक्यस्य विधिबोधकस्योद्देश्यतावच्छेदेन विधेयबोधकता स्यादेवेति विकल्पापत्तः। तावतापि वाक्यभेदापत्तेश्चेति दिक् । अन्यथा यथाकथञ्चित् प्रतीयमानस्यापि वा. च्यत्वे वाच्यत्वापत्तेरिति । इष्टापत्तिस्तु न । शक्यतावच्छेदकगौरवापत्तेः। .. । ननु नजर्थभेदस्य प्रतियोगितासम्बन्धेन प्रतियोगिनि विशेषणत्वे घटप्रतियोगिकभेदस्य प्रतियोगितासम्बन्धेन घटे सत्वात्तद्विशिष्टस्य घटस्याघटान् नयेतिवाक्या बो. धापत्तिरत आह-मूले- विशेष्यो वेति । प्रथमपक्षे नमर्थाभावस्य प्रतियोगिविशेष ४० द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy