SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१२ दर्पणपरीक्षासहिते भूषणसारे दर्पणः तीये प्रयोगे बीयुपादाने ब्रीहिशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागस्त्यक्तप्रामाण्यस्वीकारश्चेति दोषद्वयम्। चतुर्थे यवोपादाने व्रीहिशास्त्रस्यास्वीकृताप्रामाण्यस्वीकार स्वीकृतप्रामाण्यत्यागश्चेति दोषद्वयमिति चत्वारोऽन्येऽपीत्यष्टदोषविकल्पापत्त्या नजनुयाजपदाभ्यामनुयाजभेदो बोध्यते । सोऽयं पर्युदासः । अस्मिश्च पक्षे येयजामहो न कर्तव्यतया विधीयते । 'यजतिषु येयजामहङ्करोति' इत्यनेनैव तद्विधानात् । किन्तु सामान्यशास्त्रविहितयेयजामहमनूद्य तस्याऽनुयाजव्यतिरिक्तविषयता बोध्यते। तथाच सामान्यशास्त्रस्य विशेषविधिसापेक्षत्वान्नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुयाजव्यतिरिक्तेषु येयजामहः कर्त्तव्यतया प्रतीयतेऽनुयाजेषु तु न कर्त्तव्यतया प्राप्तो, नापि प्रतिषिद्धः स इति न विकल्पः। नच नसा निषेधबोधनेऽपि पदशास्त्रेणाऽऽहवनीयशास्त्रस्येव, नाऽनुयाजेष्विति विशेषशास्त्रेण 'यजतिषु येयजामहङ्करोति इतिसामान्यशास्त्रस्य बाधान्न विकल्प इति वाच्यम् । परस्परनिरपेक्षयोहि बाध्यबाधकभावः । पदशास्त्रेणाऽऽहवनोयशास्त्रस्यानपेक्षणात् स उचितः। निषेधशास्त्रस्य तु प्रतियोगिप्रसिद्धयर्थमस्त्यपेक्षा विध्यर्थस्य । "प्रसक्तं हि प्रतिषिद्धयते इति न्यायात्तेन तबाधाऽसम्भवात्, किन्तुक्तयुक्त्या विकल्प एव । तथा च द्विरदृष्टकल्पनाप्रसङ्गोऽपि । विधेयेवं ज्ञायते । यदनुयाजेषु येयजा. महकरणेन कश्चनोपकारो भवति ; निषेधाच्च तदकरणादनृतवदनाकरणादिव दर्शपूर्णमासयोः । स चोपकारो दृष्टरूप एवेत्यतोऽपि विकल्पो न युक्त इत्याहुः ।। __ अत्र केचित्-निषेधशास्त्राऽनालोचनेन सामान्यशास्त्रालोचनमात्रेण भ्रमात्मकप्रतियो. गिप्रसिद्धयाऽभावबोधनसम्भवेन विकल्पाप्रसक्तः। विशेषनिषेधेसमान्यविधेस्तदितरपरत्वस्य 'ब्राह्मणेभ्योदधिदातव्यं,कौण्डिन्याय न दातव्यम् इत्यादी व्युत्पत्तिसिद्धत्वाच्च । न च तत्रापि पर्युदास एव ना बोध्यते । नजा पय्युंदासबोधने विशेष्यविशेषण परीक्षा महशब्दवन्मन्त्रप्रयोगपरः । अनुयाजभिन्नेषु यागेषु येयजामहशब्दवन्मन्त्रप्रयोग कुर्य्यादित्यर्थः । एवञ्चोभयोरेकविधेयकोद्देश्यकान्वयबोधजनकत्वरूपैकार्थकत्वस्योपपत्तिः । यद्यन्न नजोऽत्यन्ताभावार्थकत्वं स्यात्तदा यजतिषु येयजामहशब्दवन्मन्त्रप्रयोगङ्कुर्यात् । अनुयाजेषु येयजामहशब्दवन्मन्त्रप्रयोगन्न कुर्यादित्यर्थे वाक्याभेदापत्तिः । किञ्चात्यन्ताभावार्थकत्वे प्रसक्तं हि प्रतिषिध्यते इति न्यायेन 'यजतिषु येयजामहं करोति इति वाक्यस्य यागत्वावच्छेदेन येयजामहशब्दवन्मन्त्रप्रयोगविधायकत्वं कल्पनीयम् । नानुयाजेष्वित्यनेनचानुयाजाधिकरणकयेयजामहशब्दवन्मन्त्रप्रयोगोत्पत्यनुकूलभावनाया निषेधविधानमिति वाच्यमित्यनुयाजाधिकरणकनिषेधे यजतिष्विति वाक्यबोध्यार्थस्योपजीव्यत्वात्तस्य सर्वथा बाधो न सम्भवतीति निषेधविषये विकल्पस्यापत्तिः स्यात् । षोडशिग्रहणाग्रहणयोर्भवत्यपरोऽपि दोषश्चेति पयुर्दास एव । एतेन न नजो भेदबोधकत्वेऽनुयोगिवाचकपदोत्तरम्प्रथमाऽपेक्षितेति वदन्तः परास्ताः। विकल्पे सत्यपि नक्षतिरिति तु न ; 'ब्रीहिभियजेत' 'यवैर्वा यजेत इत्यत्रेवाष्टदोषापत्तेः। पर्युदासेन सामान्यशास्त्रस्य निषेधविषयातिरिक्तस्येव विधायकत्वमिति न विकल्पः । न च निषेधस्य विध्युन्मूलकत्वेन प्राबल्याद्विधिशास्त्रविषयातिरिक्त एव विधे
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy