________________
दर्पणपरीक्षासहिते भूषणसारेप्राधान्याऽबाधात् सर्वनामता सिद्ध्यति । अन्यथा अतिसर्च इत्यत्रेव सा न स्यात् । घटो नास्तीत्यादावभावविषयकबोधे तस्य विशेष्यताया एव दर्शनात् । अस्मद्रीत्या च स आर्थो बोधो मानसः। ___ तथाचासर्वस्मै इत्याद्यसिद्धिप्रसङ्गो नेति । अत्र चारोपितत्वमा. रोपविषयत्वम् । आरोपमात्रमर्थो; विषयत्वं संसर्ग इति निष्कर्षः। द्योत्यत्वोक्तिनिपातानां द्योतकत्वमभिप्रेत्य ॥ ४० ॥
'घटो नास्ति' 'अब्राह्मण' इत्यादावारोपबोधस्य सर्वानुभववि
दर्पणः *सा*-सर्वनामसंज्ञा ॥ *न स्यादिति । असर्व इत्यत्र नजोऽभेदार्थकत्वे तत्र प्रतियोगितया सर्वपदार्थस्योपसर्जनत्वेन संज्ञोपसर्जनानां सर्वादिबहि तत्वेनातिसर्व इत्या दाविव तदप्रवृत्तेरिति भावः । ननु भेदप्रतियोगी सर्व इति तत्र बोधाभ्युपगमान्नोत्तरपदार्थस्य प्राधान्यहानिरत आह-*घटो नास्तीत्यादाविति* ॥ *तस्य*-नार्थस्य ॥ नजर्थाऽभाववत्त्वस्य विशेष्यतायां तन्त्रत्वादिति भावः।
ननु तवाप्यघटः पट इत्यतो घटभिन्नः पट इति सर्वसिद्धप्रतीत्यनुपपत्तिरत आह-*अस्मद्रीत्येति* ॥ *स*-भेदबोधः ॥ *आर्थ इति* ॥ अर्थादुपस्थितिविषयादागत इत्यर्थः ॥ *मानस इति । तत्र शाब्दत्वप्रत्ययत्वसिद्ध एवेति भावः । नन्वसर्वशब्दस्य सर्वनामत्वाभावे का क्षतिरत आह-*तथाचेति ॥ *अत्र चेति ॥ आरोपितत्वं नवाच्यमिति कल्पे चेत्यर्थः ॥ निष्कर्ष इति ॥ विषयत्वस्य संसर्गमर्याद. यैव लाभादनन्यलभ्यारोपस्यैव नअर्थत्वं न त्वारोपविषयत्वस्य गौरवादिति भावः । नन्वारोपस्य वाच्यत्वाभ्युपगमे द्योतकताप्रतिपादकमूलविरोधोऽत आह-*द्योत्यत्वोक्तिरिति ॥ वाच्यस्याऽपि तस्य विशेषणतैव नाभाववद्विशेष्यतेति सूचयितुमेव तथोक्तिरिति भावः ॥ ४०॥ ____ *घटो नास्तीति ॥ यद्यपि समासयोग्यनज एवारोपाऽर्थकत्वं मूले उक्तम् , तथापि घटो नाऽस्तीत्युक्तिरत्रेव तत्राऽप्यारोपाननुभव इति दृष्टान्तार्थत्यवधेयम् । नञ्द्यो
परीक्षा र्थाभावस्य दर्शनादिति । घटो नास्तीतिशब्दस्य स्वमते घटाभावः कालसम्बन्धीति बोधः । स्वमते तु घटाभिन्नैककर्तृकवर्तमानकालिकसत्ताभाव इति उभयथाप्यभावस्य प्रतियोगिनिरूपितप्राधान्येनैव भानम् । *स*-अभावविशेष्यकबोधः । *आर्थ इति । अर्थादागत उपस्थितिविषयावागत इति यावत् । ___ *इत्याद्यसिद्धिरिति* । “संज्ञोपसर्जनप्रतिषेधः” इति वार्तिकात्सर्वनामेति महासंज्ञाकरणाद्वाऽसिद्धिरित्यर्थः। अत्र 'आरोपितत्वन्नञ् द्योत्यम्' इतिकल्पे लाघवादाह*आरोपमात्रमिति। नन्वारोपितत्वन्नज्वाच्यमित्येवास्त्वित्यत आह-*द्योत्यत्वोक्तिरिति । एवञ्च द्योत्यार्थस्य विशेषणताया अन्यत्र सिद्धान्तित्वाद् । अतः 'असर्वस्माद'इत्यादौ सर्वनामकार्य सिध्यतीति भावः ॥ ४०॥
घटो नास्तीतिवदित्यसङ्गतम् , समासयोग्यस्य नन एवारोपितत्वद्योतकतायामू. लकृतोक्तस्वादत आह-*अनुभवविरुद्धत्वादिति । तथाचारोपितत्वाननुभव एव तस्य