________________
नबर्थनिर्णयः। रुद्धत्वात्पक्षान्तरमाह
अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥४१॥
तदर्थो नअर्थः । अर्थपदं द्योत्यत्ववाच्यत्वपक्षयोः साधारण्येन कीर्तनाय ॥ *भाष्यस्येति* ॥ तथाच नञसूत्रे महाभाष्यम्-"निवृत्तपदार्थकः" इति । निवृत्तं पदार्थो यस्य, "नपुंसके भावे क्तः" (पा० सू० ३।१।११४) इति क्तः । अभावार्थक इत्यर्थः । ___ यत्तु-निवृत्तः पदार्थो यस्मिन्नित्यर्थः। सादृश्यादिनाऽध्यारो. पितब्राह्मण्याः क्षत्रियादयोऽर्थाः यस्येत्यर्थ इति कैय्यटः, तन्न । आरोपितब्राह्मण्यस्य क्षत्रियादेनज्वाच्यत्वात् ।
दर्पणः त्यमित्यत्र नसो विशेषणतया व्यवधानेन चोपस्थितत्वेऽपि तत्पदादीनां बुद्धिस्थपरामर्शकत्वात्तदा तत्परामर्शो नाऽनुचित इत्याह-*तदर्थो नार्थ इति ॥ *साधारण्येनेति ॥ प्रकृतेऽर्थपदस्य तजन्यबोधविषयपरतया पक्षद्वयसंग्रहः । तत्रासति बाधके वाचकत्वमेव सति तु तस्मिन् द्योतकतापीति भावः ॥ *नज्वाच्यत्वादिति ॥
परीक्षा दृष्टान्ततयोपादानमिति भावः । *साधारण्येनेति । अर्थपदस्य तजन्यबोधविषयार्थकत्वात् । एवञ्चासति बाधकेऽभावो वाच्य एव। यदि बाधकावतारस्तदा द्योत्यत्वं तस्येति साधारण्येन व्याख्यानमावश्यकम् । *भाष्यस्येति । नञ्तत्पुरुषस्य पूर्वपदार्थप्राधान्ये 'अस' इत्यादौ सर्वनामकार्यन्न प्राप्नोतीति दोषे सत्युत्तरपदार्थप्रधानोऽयं समास इति पक्ष उक्तः । अत्र पक्षे भेदस्य नज्वाच्यस्य प्रातियोगितासम्बन्धेनोत्तरपदार्थे विशेषणत्वे भेदप्रतियोगी ब्राह्मण इत्यर्थः स्यात् । तथाच 'अब्राह्मणमानयाइत्युक्त ब्राह्मणमात्रस्यानयनं प्राप्नोति ननःप्रयोगान्नअर्थविशिष्टस्यानयनं भविष्यति कः पुनरसौ नअर्थः । निवृत्तः पदार्थः ब्राह्मणदृष्टस्य गोत्रादेर्दर्शनादृष्टोपदेशाद्वा पूर्व ब्राह्मणोऽयमित्यध्यस्यति। ततः पश्चादयं लभते 'नायं ब्राह्मण' इति । ततोऽब्राह्मणोऽयमिति प्रयुक्त। आतश्च तदृष्टगुणदर्शनादृष्टोपदेशाद्वा ब्राह्मणत्वाध्यवसायपूर्वकमेव 'नार्य ब्राह्मण' इति ज्ञानं ताङ्कालवर्णमापणे आसीनं दृष्ट्वा ब्राह्मणोऽयमित्यध्यवस्यति । यथास्थितं वस्तु तत्वतस्तस्य निर्जातं भवतीति भाष्यस्येत्यर्थः। *तदाशयात्*-अभावस्य तदर्थत्वमित्याशयात् । भाष्याशयम्प्रकटयति-*तथाचेति ।
कैयटमतं दूषयितुमादौ कैयटोक्तव्याख्यानमनुवदति-*यत्त्विति । अध्यारोपित. ब्राह्मण्या इत्यत्र बहुवीहिः। अध्यारोपितं ब्राह्मण्यं येष्वित्यर्थेनान्यपदार्थस्य ब्राह्मणत्वप्रकारकाध्यारोपविशेष्यस्य लाभे तस्य नवाच्यत्वमनुभवविरुद्धमित्याशयेन दूषयति-*नज्वाच्यत्वादिति । ननु तद्भाष्येण सदृशस्तीयं कालवर्णमित्यादि