SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१० दर्पणपरीक्षासहिते भूषणसारे दर्पणः यद्यप्युत्तरपदार्थप्राधान्येन नञ्तत्पुरुषस्य ब्राह्मणमात्रस्याऽऽनयनं प्राप्नोति । नञः प्रयोगान्नजर्थविशिष्टस्यानयनं भविष्यति । “कः पुनरसौ नजर्थो ? निवृत्तपदार्थकः । ब्राह्मणदृष्टस्य गौरत्वादेदर्शनाद् दृष्टोपदेशाद्वा पूर्वमब्राह्मणोऽयमित्यध्यवस्यति । ततः पश्चादुपलभते नाऽयं ब्राह्मण इति । ततोऽब्राह्मणोऽयमिति प्रयुङ्क्ते । अतश्च तद्टगुणदर्शनाद् दृष्टोपदेशाद्वा ब्राह्मणत्वाद्यध्यवसायपूर्वकमेव नाऽयं ब्राह्मण इति ज्ञानम्। नह्ययं कालवर्णमापणे दृष्ट्वाऽध्यवस्यति ब्राह्मणोऽयमिति । यथास्थितं वस्तुतत्त्वं तस्य नितिं भवति" इति नञ् सूत्रभाष्यपालोचनया कैयटोक्ताऽर्थस्यैव साधुत्वं लभ्यते । तथापि तद्भाष्यस्याऽभेदप्रत्यक्षे क्वचिद् योग्याऽनुपलब्धेहेतुत्वप्रदर्शनपरतयैवोपपत्तेर्नज आरोपवाचकत्वे तदुपष्टम्भकत्वाऽभावात् । अन्यथाऽत्यन्ताऽसदृशे उक्तयुक्त्या तदारोपासम्भवेन तत्र नमर्थस्तदर्थकत्वासम्भवादघटः पट इत्यनापत्तेः । 'प्रतियोग्यभावाऽन्वयौ तुल्ययोगक्षेमौ'इति तान्त्रिकोक्तेर्नीलो घट इत्यादौ तादात्म्येन घटांऽशे नीलपदार्थभानान्नसमभिव्याहारे तादात्म्यसम्बन्धावच्छिन्ननीलाभावबोधस्य सर्वानुभवसिद्धस्य नजोऽभावार्थकत्वं विनाऽनुपपत्तेनेदं रजतमिदं रजतमिति वाक्यजन्यबोधयोस्तत्तदभावानवगाहितया परस्परप्रतिबध्यप्रतिबन्धकभावाsनापत्तश्च नजो भेदार्थकत्वमावश्यकम् । नच नमो भेदार्थकत्वेऽब्राह्मणमानयेत्यादितो ब्राह्मणभिन्नलोष्टादेरपि बोधाssपत्तिः । न चेष्टापत्तिः । “न ह्यब्राह्मणमानयेत्युक्ते लोष्टमानीय कृती भवति" इति भाष्यविरोधादिति वाच्यम् । घटत्वेन घटार्थकघटपदात् सन्निहितव्यक्तिबोधवत् प्रकरणादिना ब्राह्मणभिन्नमात्रार्थकाद् ब्राह्यणपदात् क्षत्रियादेरेव बोधसम्भवात्। तस्मादघटो न पट इत्याद्यसमस्ते नमोऽभेद एव शक्ति दत्वस्याखण्डोपाधितया तस्य शक्य. ताऽवच्छेदकत्वे लाघवात् । समासघटकस्य तस्य तूत्तरपदस्य तद्भिन्ने लक्षणायां तात्पर्य्यग्राहकत्वमेव ॥ नच "न ब्राह्मणैरेतैरुपद्रुतम् इत्यादौ नजो भेदार्थकत्वे तत्प्रतियोग्यनुयोगिवाचकपद्योः समानविभक्तिकत्वाऽनुपपत्तिः । सामानाधिकरण्याभावादिति वाच्यम् । प्रतियोग्यनुयोगिनोरभेदाऽन्वयबोधौपयिकाङ्क्षायां सत्यामेव नजा भेदबोधनेन तयोः समानविभक्तिकत्वस्य तदुपजीव्यत्वात् । एवञ्च नजा भेदबोधनं प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिवाचकत्वनियामकम् । अत एव 'भूतले न घट' इत्यादौ न भेदबोधः । परीक्षा नोक्तप्रकारेण ब्राह्मणोऽयमिति प्रयोगात्कैयटोक्त एवार्थो युक्त इति चेद् ? न । अभावप्रत्यक्षे प्रतियोग्यारोपः कारणमिति प्राचीनोक्तस्याभावप्रत्यक्षकारणस्य प्रदर्शकतद्भाष्यमिति कल्पनासम्भवात् । ___ वस्तुतस्तु सादृश्याद्यनाभेदेनोपादानन्तत्रैव भेदप्रतीतिरिति न नियमः। 'घटो न पटः' 'नीलो न रक्त' इति रीत्याऽत्यन्तासदृशेऽपि नञः प्रयोगदर्शनात् । नचाभावस्य भेदरूपस्य वाच्यत्वे तस्य भेदस्य विशेषणत्वपक्षे ब्राह्मणमात्रस्य 'अब्राह्मणमानय' इति वाक्यजन्यबोधानन्तरमानयनम्प्राप्नोतीति दूषणमस्त्येवेति वाच्यम् । यथेदं 'नीलम्फलमानयाइत्युक्ते तदूघटकफलपदस्य सन्निहितफलपरत्वमेव । व्यक्ति
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy