________________
॥ अथ नत्रर्थनिर्णयः॥ नार्थमाह
नक्समासे चापरस्य प्राधान्यात् सर्वनामता।
आरोपितत्वं नञ्योत्यं न ह्यसोऽप्यतिसर्ववत् ॥४०॥ नसमासे अपरस्य-उत्तरपदार्थस्य प्राधान्यात् सर्वनामता सिद्ध्यतीति शेषः । अत एव आरोपितत्वमेव नद्योत्यमिति । अभ्युपेयमिति शेषः। अयम्भावः-असर्व इत्यादावारोपितः सर्व इत्यर्थे सर्वशब्दस्य
दर्पणः
अथ नार्थनिर्णयः। __ "समासे खलु भिन्नैव” इत्यत्र पङ्कजशब्दवदिति वदता समासे तघटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम् । तच्चाऽनुपपन्नम् । यत्र समासघटकप्रत्ये. कपदस्याऽनर्थकत्वं तत्र प्रत्येकशक्तिसाचिव्याऽसंभवात् यथा नसमासघटकनञः ।
द्वयोराऽभिधाने हि व्यापारो नैव विद्यते । इत्युक्तेः ॥ एवञ्च जहत्स्वार्थावाद इवेशस्थले उत्तरपदार्थाऽदिप्राधान्यस्य स्वरसतोऽनुप. त्तिरपीतीमां शङ्कां परिहत्तुं नअर्थनिरूपणमित्याह-*नार्थमिति ॥ मूले ॥ *नञ्समास इति* ॥
अयम्भावः-'घटो न पटो' 'घटो नास्ति' इत्यादावभावशाब्दबोधस्य सार्वजनीनप्रसिद्धिसिद्धत्त्वान्नजाऽभावार्थकत्वमावश्यकम् । तथाचोत्तरपदार्थप्राधान्यादिव्यवस्था सुलभा । यद्यपि घटो नेत्यादावभावविशेष्यक एव बोधस्तथाप्यऽसर्व इत्याद्यनुरोधेनारोपितत्वार्थकत्वमपि नमोऽङ्गीकरणीयमिति शेषपूरणेन व्याचष्टे सारे-*सिद्धयतीति । *अत एवेति ॥ प्राधान्यानुपपत्तेरेवेत्यर्थः॥
ननु नअस्तत्राभावार्थकत्वे कथं प्राधान्यानुपपत्तिरित्यतोऽभावार्थमाह-*अयम्भाव इति* ॥ अन्यथा आरोपितत्वार्थकत्वानभ्युपगमे भेदार्थकत्व इति यावत् ॥
परीक्षा
__ अथ नजर्थनिर्णयः। अथ "समासे खलु भिन्नैव शक्तिः"इत्यादिना अतिरिक्त एकार्थीभावो व्यवस्थापितः, एवं च जहत्स्वार्थायामेव पर्यवसानम्। उत्तरपदार्थप्रधानोऽयं समास इत्यादयो व्यवहाराश्चानुपपन्ना इत्याशङ्कापनोदाय नजर्थकथनमित्याह-*नजर्थमिति* । 'नसमास' इति कथनेन यत्र न समासस्य प्रयोगः, किन्तु 'घटो न पट:' 'घटो नास्ति' इत्यादौ तत्र नजोऽभावार्थकत्वेनापि निर्वाहो भवति । यस्त्वस इत्यत्राप्यभावस्य प्राधान्यस्वीकारे सर्वनामकार्यन्न स्यादतो नसमासे 'आरोपितत्वन्नज् द्योत्यम्। इत्यावश्यकमित्याशयः प्रकटीकृतः।
तदेवोपपादयति-*अयम्भाव इत्यादिना । अन्यथा पूर्वपदार्थप्राधान्ये तस्य नज