SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेसमयाद् योग्यतासंविन्मातापुत्रादि योगवत् ॥३९॥ सम्बन्धो-विषयः। योग्यतां प्रति योग्यता-सम्बन्धिशब्दप्रति योग्यता विषय इति । समयादू-व्यवहारात् , योग्यतासंवित् शक्तिग्रहः। घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात् , सा ग्राह्येत्यर्थः ॥३६॥ इति वैयाकरणभूषणसारे शक्तिनिर्णयः॥६॥ दर्पणः तथाचाऽनधीतव्याकरणानां तेन शक्तिग्रहाऽसम्भवात् तदर्थ व्यवहाररूपमप्युपायमाहे. तिपर्यवसानान्न वैयर्थ्यमिति भावः । एतेन ग्रन्थकृताऽतिरिक्तशक्तेरनङ्गीकारेण तद्ग्रहोपायप्रदर्शनं व्यर्थमित्याशङ्कापि समाहिता। विषयपदाध्याहारेण मूलं व्याचष्टे*सम्बन्धी विषय इति ॥ ___ तथाचाऽयमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विषयः। योग्यतां प्रति इदमत्रयोग्यमिति योग्यताव्यवहारे योग्यताविषयो यतोऽतः समयात् तद्व्यवहाराद्योग्यतायां बोधकतारूपशक्तेः । *संवित्* । ज्ञानं भवतीत्यर्थः।। __तत्र दृष्टान्तो-*मातापुत्रादियोगवदिति* ॥ यथाऽयमेतत्सम्बन्धीति व्यवहारस्तयोर्जन्यजनकभावनिश्चायकस्तदूवदित्यर्थः।। ___अन्ये त्विदं हरिपद्यमित्थं व्याचक्षते । सम्बन्धिशब्दे अयमेतत्सम्बन्धीति व्यवहारे योग्यतां प्रति अर्थबोधजनकताऽवच्छेदकधर्मवत्त्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणो अन्यो वा सम्बन्धः स एव योग्यताऽपरपर्य्यायो विषय इति शेषः । स चानादिवृद्धव्यवहारापरपायोऽस्मदादिसमयान्निश्चीयते, न तु बोधजनक. त्वमेव शक्तिरेतबोधजननेऽयं योग्य इति व्यवहारात् । अत एवैतच्छेषे सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते । शब्दस्याऽर्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते ॥ इत्यन्तेनोक्ताऽर्थः स्पष्टीकृत इति । अधिकमन्यतोऽवधार्यम् ॥ ३९ ॥ इति भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम् ॥६॥ परीक्षा एवं च येषां कथनं व्याकरणेन कोशेन वा तेषामसाधुतापत्तिरत आह-*अतिरिक्तेति । अत्र हि अतिरिक्तेति शक्तिग्रहोपायस्य विशेषणम् । एतेनातिरिक्तवादस्य स्वमतेऽभावादिदमसङ्गत्तमित्यपास्तम् । तदुदाहरणम्-*सम्बन्धिशब्द इति । इदं च विषयपदाध्याहरेण व्याचष्टे-*सम्बन्धी विषय इति । सप्तम्यर्थो निरूपितत्वम् । तस्य विषयपदार्थैकदेशविषयतायामन्वयः । योग्यताशब्दः शक्तिपर्यायः । योग्यताशब्दस्य शक्तिपरत्वे लौकिकव्यवहार एव साधक इत्याशयेनाह-*घटपदमत्रेति । तत्र दृष्टान्तोपादानम्-मातापुत्रादियोगवदिति । केचित्तु योग्यवदिति पाठः । यथाअयमेतत्सम्बन्धीदं च तथाव्यवहारात्तयोर्जन्यजनकभावनिश्चयस्तद्वत् ॥ ३९॥ इति भूषणसारटीकायां शक्तिनिर्णयः।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy