________________
शक्तिनिर्णयः ।
अतिरिक्तशक्तिग्रहोपायमाह - सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता ॥
दर्पणः
आह
ननु शक्तिग्राहकयोः कोशव्याकरणयोर्विद्यामानत्वाच्छक्तिग्रहोपायकथनं व्यर्थमत - *अतिरिक्तेति ॥ कोशव्याकरणाभ्यामतिरिक्तो यः शक्तिग्रहोपायस्तमित्यर्थः । परीक्षा
३०५
व्यक्तिपदेन ‘अक्ताः शर्करा उपदधाति । इत्यादौ अक्ता इत्यनेन घृतसाधनाअनपरत्वम् । तेजो वै घृतमिति स्तुतिरूपाल्लिङ्गाद् घृतसाधनाञ्जनप्रतिपादनम् । शब्दस्यान्यस्य सन्निधिः - शब्दान्तरसमभिव्याहारः । यथा - 'रामो जामदग्न्यः' इत्यत्र जामदग्न्यपदसन्निधानेन रामः परशुरामः । सामर्थ्यम् - कारणत्वम् । तेन यथा - मधुना मत्तः कोकिल' इत्यत्र मधुशब्दस्य वसन्ते । अन्यस्य मधुशब्दार्थस्य कोकिलार्थो न । सामर्थ्याभावात् । औचिती अर्हता । यथा
यञ्च निम्बं परशुना यश्चनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥
इत्यत्र परशुना इत्यस्य परशुकरणकछेदनपरत्वम् । मधुसर्पिः शब्दस्य तत्करणकसेचनपरत्वम् । गन्धमाल्याभ्यामित्यस्य तत्करणकपूजनार्थत्वम् । देशेन यथा—- भात्यत्र परमेश्वर इत्यत्र यथा । अत्र परमेश्वरपदस्य राजधानीरूपाद्देशाद्राजपरत्वम् । कालेन यथा - चित्रभानुर्विभातीत्यत्र चित्रभानुशब्दस्य द्विप्रयुज्यमानस्य दिवाकरे, निशि तु वह्नौ । व्यक्तिर्लिगं पुंस्त्वादि । तेन यथा मित्रं भाति, मित्रो भातीति । अत्र नपुंसकत्वेन सुहृद्, पुंस्त्वेन - आदित्यः । अत्र विकसितमुकुलिताभिनयविशेषसाहित्येन स्तनस्य मुकुलितत्वपीनत्वाद्यर्थविशेषे बुद्धिविशेषविषयत्वेनानुगतीकृतानेकधर्मावच्छि न्नशक्तैतच्छब्दस्याभिधा नियम्यते । अपदेशो नाम - हृदयनिहितहस्तादिनाऽभिमतनिर्देशः ।
इतः सदैतः प्राप्तश्रीनेंत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥
अस्मिन्पद्ये इत इत्यत्र य इदं शब्दस्तस्यादेशेनाभिधावक्तुरिति नियम्यते । एतैः संयोगादिभिरेकत्राभिधानियमनानन्तरमनेकार्थशब्देन यदन्यार्थस्य प्रतिपादनं तद्द्रद्वयञ्जनयैव । न च श्लेषेण यत्रार्थप्रतिपादनं तत्रोभयत्र तात्पर्यादेवोभयप्रतीतिसम्भवे किं व्यञ्जनयेति वाच्यम् । यत्रोभयमर्थप्रतिपादने तात्पर्यं तत्र श्लेषः । यथा - हरिहरतात्पर्येण - 'सर्वतोमाधवः पायात्संयोगङ्गामहीधरौ' इत्यादौ
यत्र तु नोभयप्रातिपादने तात्पर्य किन्त्वेकत्रैव यथा
भद्रात्मनो दुरधिरो हतनोविशालवं शोन्नतेः कृतशिखीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततङ्करोभूत् । इत्यत्र राज्ञि तदन्वययोग्ये चार्थे प्रकरणेनाभिधानियमेऽपि गजस्य तदन्यप्रयोज्यस्य चार्थस्य या प्रतीतिः सा व्यञ्जनैवेत्याशयात् । अधिकमर्थतोऽवधेयम् ॥३८॥ ननु पुण्यजननयोग्यत्वं साधुत्वम्, तद्वयञ्जकं च कोशव्याकरणादिति प्रागुक्तम् । ३९ ५० प०