________________
२६७
समासशक्तिनिर्णयः। राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् । विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे।
दर्पणः सम्बन्धलक्षणाकल्पं दूषयति-*नान्त्य इति । नीलोत्पलादिसमाससङ्ग्रहाय समानः विभक्तिकेत्यपहायोक्तम्-*विरुद्धविभक्तिरहितेति । विरुद्धविभक्तिकधातुप्रातिपदिकार्थयोः, स्तोकं पचतीत्यादावभेदाऽन्वयदर्शनादाह-*प्रातिपदिकार्थयोरिति । तथा. चाऽभेदसंसर्गावच्छिन्नप्रातिपदिकार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विरुद्ध विभक्तिरहितपदजन्योपस्थितेहेतुतया तस्या राजपुरुष इत्यादिसमा. सोत्तरपदार्थे पुरुषादौ सत्त्वादभेदाऽन्वयो दुर्वार इति भावः ।
ननु विरुद्धविभक्तिराहित्यं व्यासमाससाधारणम् , न विशेष्यवाचकपदस्य विशेषणवाचकपदाऽप्रकृतिकविभक्त्यप्रकृतित्वम् । 'नीलं घटमानय' इत्यादावभावात् । नापि विशेषणवाचकपदस्य विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वम् , विशेष्य. पदाप्रकृतिकत्वस्य तदनुत्तरत्वस्य तदुत्तरत्वेनाऽप्रतिसन्धीयमानत्वस्य वा "नीलो घट' इत्यादौ नीलपदोत्तरविभक्तौ घटादिपदोत्तरविभक्तिभिन्नायां सत्त्वेन तत्राभेयान्वयानुपपत्तेरिति चेत् ?
अत्र केचित्-विशेषणपदे विशेष्यवाचकपदप्रकृतिकविभक्त्यसजातीयविभक्त्यप्रकृतिकत्वमेव विरुद्धविभक्तिराहित्यम् । साजात्यं च सुत्वादिना प्रथमात्वादिना वा। 'नीलो घट' इत्यादौ विशेषणविभक्तविशेष्यविभक्तिभिन्नत्वेऽपि तत्सजातीयभिन्न. त्वाऽभावेनोक्तविरुद्ध विभक्तिराहित्यस्य तत्राऽक्षतत्वादिति।
वस्तुतस्तु विशेषणविभक्तः साधुत्वमात्रार्थकत्वमिति मते विरुद्धत्वं स्वार्थभिन्ना. र्थकत्वम् । 'नीलो घट' इत्यादौ विशेषणविभक्तनिरर्थकतया तत्र विशेष्यविभक्तिविरु. द्वार्थकविभक्तिद्वितीयादिरूपैव, तदप्रकृतित्वस्य विशेषणवाचकपदे सत्त्वान्न तदसहः । एवं 'नीलघटमानयाइत्यादिसमस्तस्थले विशेषणविभक्तरेवाभावेन तादृशविभक्त्यप्रक. तित्वं विशेषणवाचकपदस्याव्याहतम् । अत एव 'चैत्रस्य सुतस्य धनम्' इत्यादौ नाऽभेदान्वयाऽऽकाङ्का। तत्र विशेषणविशेष्यविभक्त्योविभिन्नसम्बन्धार्थकत्वात् । । नाऽपि स्तोकमत्तीत्याद्यसङ्ग्रहः । पूर्वकल्पे तु विशेषणवाचकविभक्तस्तिविजातीयत्वेनोक्ताकासायास्तत्रासत्त्वेन तदसङ्ग्रहः स्पष्ट एव ।
परीक्षा वाक्यात् । विरुद्धविभक्तिरहितेति । नच विरुद्धविभक्तिकत्वं विशेष्यवाचकपदोत्तरविभक्त्यवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिप्रकृतित्वम् , तच्च राजन्-शब्देऽस्तीति न भेदान्वयानुपपत्तिरिति वाच्यम् ? वस्तुगत्या यत्तादृशविभक्तिकन्तदर्थस्य भेदात्वयः इति चेदाश्रीयते, तदा राज्ञः पुरुषादिवाक्यघटके राज्ञ इति पञ्चम्यन्तत्वग्रहदशायां
जान्ननल्समभिव्याहारेऽपि राज्ञः पुरुषादागतो भृत्यः इति वाक्यादाजाभित्र परुषापादानकागमनकर्ता भृत्य इति बोधः सर्वत्रेति। विरुद्धविभक्तिकत्वेनाज्ञातप्रातिपदिकार्थयोरभेदान्वय इत्यर्थः कार्य्यः। तथा च राजपदे षष्ठयन्तत्वाग्रहकाले सम्बन्धे लक्षणापक्षे राजसम्बन्धाभिन्नः पुरुष इति बोधापत्ते१रत्वात् । -