________________
२६६ दर्पणपरीक्षासहित भूषणसारे
किञ्च 'राजपुरुषः' इत्यादौ सम्बन्धिनि, सम्बधे वा लक्षणा । नाद्यः । 'राज्ञः पुरुषः' इति विवरणविरोधात् । समाससमानार्थकवा. क्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनियो न स्यात् । नान्त्यः ।
दर्पणः स्वामिभावसम्बन्धेन पुरुषे, तण्डुलस्य कर्मतासम्बन्धेन धात्वर्थपाकेऽन्वयवारणायाऽऽ. वश्यकत्वेऽपि तत्र राजा पुरुषस्तोक पचतीत्यत्राऽभेदसम्बन्धेनाऽन्वयाद् व्यभिचारवारणायाऽभेदातिरिक्तसम्बन्धाऽवच्छिन्नत्वं नामाऽर्थनिष्टप्रकारतायां निवेशनीयम् । __नच विशेषणविभक्तेरभेदार्थकतया निर्वाहः । कट एव कर्मेति भाष्यव्याख्याsवसरे भीष्मादीनां स्वयमकर्मकत्वेऽपि विशेष्यसम्बन्धिविभक्त्यैव भीष्मादिपदोत्तरं भवितव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां "प्रत्ययः" "परश्च" इति नियमेन प्रयोगाऽनर्हत्वात् । यथेश्वरसुहृदः स्वयं निर्धना अपि तदीयधनेनैव तत्फलभाज एवं गुणा अपीति “अनभिहित” सूत्रे वदता कयटेन विशेषणविभक्तेः साधुत्वमात्रार्थकत्वं स्पष्टमेवोक्तम् । विभक्त्यर्थप्रातिपदिकार्थविशेष्यकपुरुषादिप्र. कारकबोधल्याऽननुभवाच्च । अत एव व्युत्पत्तौ भेदेनेति पठ्यते। तथाच तत्पने लक्ष्यार्थराजसम्बन्धिनः पुरुषादावन्वयो नाऽनुपपन्नोऽत आह-*किञ्चेति । विवरणविरोधादिति ॥
अत्र वदन्ति-विग्रहस्य वित्रियमाणसमानार्थकत्वं नाऽविव्रियमाणजन्यबोधे यद्यद्विशेष्यकत्वे सति यद्यत्प्रकारकत्वं तत्तद्विशेष्यकतत्तत्प्रकारकबोधजनकत्वम् । प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासविग्रहत्वाऽनुपपत्तेः। पचति, व्याकरणमधीते इत्यादीनां पाचको वैयाकरण इत्यादिकृत्तद्धितान्तविग्रहत्वानापत्तेश्च । तत्र विग्रहविगृह्यमाणजबोधविषयपदार्थानां विशेषणविशेष्यभाववैपरीत्यात् । नापि तज्जन्यबोधीययावद्विषयविषयकबोधजनकत्वम् । पुरुषस्य राजेत्यस्यापि राजपुरुषादिविग्रहत्वापत्तेः । किन्तु वित्रियमाणजबोधजनकत्वं तद् वाच्यम् । प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासजबोधविषयाः परस्परसम्बद्धतात्पर्य्यविषयीभूताश्च यावन्तः पदा• उदकादयस्तावद्विषयकबोधजनकत्वम् । घटकीया कर्मतेत्येतावन्मात्रस्य घटकर्मका. नयनकृतिरिति विग्रहत्ववारणाय यावदिति। राज्ञः पुरुषः सुन्दर इत्यधिकाऽवगाहिनो राजपुरुष इति विग्रहत्वमिष्टमेव ।
वस्तुतस्तु शक्तिग्रहेणाऽर्थ प्रयुज्यमाने तस्मिन्नतात्पर्यविषयाऽर्थकपदप्रयोगदौलभ्यमेव । पुरुषस्य राजेत्यादेस्तु विग्रहत्ववारणाय तात्पर्य्यविषयत्वं विशेषणम् । तत्र पुरुषप्रतियोगीन । घटः कर्मत्वमित्यादिसमुदायस्य, घटानयनेत्यादीनां न। कुम्भ करो. तीत्यादीनां कर्तृलाक्षणिकानामेव न्यायनये कुम्भकारादिविग्रहत्वम् । प्रकृते च राजपुरुष इत्यादित्वस्य 'राज्ञः पुरुष'इति वाक्ये अक्षतत्वान्न तस्य विग्रहत्वानुपपत्तिरिति ॥
*अन्यथेति । समानार्थकत्वाभावे इत्यर्थः। *तस्मात्-विग्रहवाक्यात् । *न स्यादिति । तत्समानाऽर्थकवाक्यस्यैव तच्छक्तिनिर्णायकत्वादिति भावः ।
परीक्षा परोक्तलक्षणापक्ष खण्डयति-*किञ्चेति । तस्मात्*-राज्ञः पुरुष इति विवरण