SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। . २६५ च-समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य ताशे विशिष्टार्थे शक्तिः। दर्पणः मानाधिकरणभीष्माऽदिभ्यो द्वितीयादिविभक्तेरनभिहितसूत्रे भाष्यकृताभिधानात् सामानाधिकरण्यस्य समानाधिकरणयोर्विशेष्यविशेषणयोर्भावस्याभेदस्य-विशेषण. पदोत्तरविभक्त्यर्थत्वलाभात् । तथापि शुभ्रणेति तृतीयाजन्याभेदोपस्थितिसत्त्वान्न व्यभिचार इति भावः । नन्वत्र अभेदो यदि भेदत्वाऽवच्छिन्नाऽभावस्तदा प्रसिद्धिः। भेदस्य केवलाऽन्वयित्वात् । यदि भेदप्रतियोगिकाऽभावस्तदा नीलो वह्निरिति वाक्यस्य प्रामाण्यापत्तित्विादिना नीलभेदाभावस्य वन्हौ सत्वाद् विशेषणविभक्त्यथकदेशे भेदे प्रकृत्यर्थस्यानन्वयापत्तिश्च । - न च भेदेऽभावे च द्वितीयादेः शक्तिः। भेदे च प्रकृत्यर्थस्य प्रकृत्यर्थताऽवच्छेदका. वच्छिन्न प्रतियोगिताकत्वेनाऽन्वयः । उक्तसम्बन्धेन प्रकृत्यर्थविशिष्टभेदस्य तु तत्वाs वच्छिन्नप्रतियोगिताकत्वेनाऽभावेऽन्वयोपगमानोक्तापत्त्यादिरिति वाच्यम् । 'प्रमेयो घट' इत्यादौ प्रमेयत्वाऽवच्छिन्नभेदाऽप्रसिद्धयोक्तप्रकाराऽसम्भवात् । नीलघटादिपरनीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्याऽऽपत्तेश्च । नीलत्वादिना नीलभेदाभावस्य घटेऽबाधात्। - नच तव्यक्तित्वावच्छिन्नाऽभेद एव विभक्त्यर्थः । तथा सत्यपूर्वव्यक्तिनिष्ठतव्यक्तित्वस्य भानाऽसम्भवेन तदवच्छिन्नप्रतियोगिताकाऽभावे शक्ति ग्रहाऽसम्भवेनाऽपूर्वव्यक्त्यभेदाऽन्वयाऽनुपपत्तेः, अभावबुद्धेविशिष्टशिष्ट्याऽवगाहित्वाऽनुपपत्त्या एकधर्माऽवच्छिन्नप्रतियोगिताकाभावे अपरधर्मावच्छिन्नप्रतियोगितायाः सम्बन्धतया भाना. ऽसम्भवाचेति चेद् ? न । अभेदस्तादात्म्यं, तच्च स्ववृत्त्यसाधारणो धर्मः। असाधा. रण्यं च स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव प्रकृतेः सः। तस्मिन्नाधेयतया प्रकृत्यर्थाऽन्वयः। अपूर्वव्यक्तिनिष्ठतव्यक्तित्वस्य विशिष्य ज्ञातुमशक्यत्वेऽप्येकमात्रधर्मत्वेन सामान्यप्रत्यासत्त्या सुग्रहात् सर्वे सुस्थमिति । *पाष्टिक इति* ॥ शाब्दबोधोत्तरकालिक इत्यर्थः ॥ *अन्वयेति । तद्वोध इत्यर्थः। अरुणाऽधिकरणरीत्या सर्वेषां विभक्त्यर्थानां प्रथम क्रियायामेवाऽन्वयेन तत्र शुभ्रादिपदार्थान्वये विभक्तिजन्योपस्थितिसत्त्वात्तत्पक्षेऽपि नोक्तव्युत्पत्तेर्व्यभिचार इति भावः ॥ ननु "नामाऽर्थयोः” इति व्युत्पत्ते राजा पुरुषस्तण्डुलः पचतीत्यादौ राज्ञः स्व. परीक्षा साम्यमिति वाच्यम् । शुभ्रभेदस्य शुभ्राभेदाभावसत्यनियतत्वेन तस्यां मते स्वातन्त्र्येण प्रतिबन्धकत्वस्याकल्पनात् , नैवम्भवन्मते वक्तुं शक्यम् । अभेदसम्बन्धेन शुभ्रप्रकारकबुद्धिम्प्रति शुभ्रभेदावगाहे ज्ञानस्यैव प्रतिबन्धकत्वम् , नतु स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकस्य शुभ्राभेदावगाहिज्ञानस्य बाधज्ञानविधया प्रतिबन्धकत्वम्, न तु स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकमिति दिक् । . विशेषणविभक्तिः साधुत्वार्थेत्याशयेनाह-*पाष्टिक इति । ३४ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy