________________
२६४ दर्पणपरीक्षासहिते भूषणसारे
अपिच समासे विशिष्टशक्त्यस्वीकारे 'राजपुरुष' 'चित्रगुः' 'नीलोत्पलम्' इत्यादौ सर्वत्रानन्वयप्रसङ्गः । राजपदादेः सम्बिन्धिनि लक्षणायामपि 'तण्डुलः पचति' इत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहतुताया आवश्यकत्वात्। पुरुषादेस्तथात्वाभावात् ।
'तण्डुलः शुभ्रः' इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्ले अभेदेनैवान्वयः। 'शुभ्रेण तण्डुलेन' इत्यादौ च विशेषणविभक्तिरभेदार्थिका, पाष्ठिको वाऽन्वय इति नातिप्रसङ्गः । तथा
दर्पणः योरनुगतयोर्दुर्वचत्वेन तत्तव्यक्तिभेदेन कार्यकारणभावो वाच्यः। तथाच समासस्थले समस्यमानपदार्थस्य प्रत्ययार्थान्वयाऽभ्युपगमे बाधकाऽभावोऽत आह-*अपिचेति॥ *अनन्वयप्रसङ्ग इति । 'नामार्थयोः' इति व्युत्पत्तेरिति भावः। _ अनन्वयमेवाह-*राजपदादेरिति* ॥ लक्षणायामपीत्यपिना सम्बन्धलक्षणायां नितरामन्वयाभावः सूच्यते । नचोक्तव्युत्पत्तेस्तण्डुलः शुभ्र इत्यादौ व्यभिचारोऽत आह-*तण्डुलः शुभ्र इति* ॥ *अभेदेनैवान्वय इति* ॥ तथा च तण्डुलान्वयिनि प्रातिपदिकार्थे विभक्तिजन्योपस्थितेः सत्वान्न तत्र व्यभिचार इति भावः । शुभ्रेण तण्डुलेनेत्यादौ व्यभिचारमोशङ्कय निराचष्टे-*अभेदाथिकेति* ॥ अथवा कट इव तत्स
परीक्षा विशिष्टशक्तिम्प्रकागन्तरेण साधयति-*अपिचेति । अनन्वयप्रसङ्गमुपपादयति*राजपदादेरित्यादिना । *तथात्वाभावादिति । विभक्तिजन्योपस्थितिविषयत्वाभावादित्यर्थः । *प्रथमाथे *-अभेदे । *तण्डुलादेरिति । तण्डुलाभिन्नः शुभ्रः इति बोधाभिप्रायेणेदम् । यदि तु शुभ्राभिन्नस्तण्डुल इति बोधस्तदा वैपरीत्येनान्वयो द्रष्टव्यः । *अभेदार्थेति*-तथा च न पूर्वोक्तकार्यकारणभावे व्यभिचार इति भावः । न च भिन्नविषयकानुमितिम्प्रति-इच्छाभावविशिष्टशाब्दसामग्र्या प्रतिबन्धकतायां विभक्तिजन्योपस्थितेरपि प्रवेशाद्गारवमिति वाच्यम् । शुभ्राभेदाभाववांस्तण्डुलः प्रमेय इत्यादिविशिष्टे वैशिष्टयमिति रीत्या यत्प्रत्यक्षं तत्प्रतिबन्धकत्वं तादृशशाब्दसा. मग्र्याः स्वातन्त्र्येण कल्पनीयमिति लाघवात् । यतस्तादृश शाब्दसामग्याः शुभ्रस्तण्डुल इत्याकारक योग्यताज्ञानघटितत्वेन तत्सत्वे विशेष्यतावच्छेदकप्रकारकज्ञानात्मककारणाभावादेव प्रत्यक्षानुपस्थितिनिhिण तस्याः प्रतिबन्धकत्वाकल्पनमिति । नच ममापि 'शुभ्राभिन्नस्तण्डुलः प्रमेय'इत्याकारक प्रत्यक्षप्रतिबन्धकत्वं न शाब्द. सामग्र्याः कल्प्यते, मन्मते शाब्दबोधस्याभेदसम्बन्धेन शुभ्रप्रकारकतण्डुलविशेष्यकतया तज्जनकयोग्यताज्ञानस्यापि तत्संसर्गिकतया तत्सत्त्वे प्रत्यक्षसामग्याश्रयणाभावादिति वाच्यम् ? शुभ्रभेदाभावव्याप्यशुभ्राभेदवानित्याकारकस्य ज्ञानस्यास्मन्मते बाधज्ञानविधया क्लुप्तप्रतिबध्यप्रतिबन्धकभावेन निर्वाहे स्वातन्त्रेणास्मन्मते तस्य प्रतिबन्धकत्वाकल्पनवन्मते तु तत्कल्पनमिति गौरवस्य स्फुटत्वात् । नच भवन्मतेऽपि शुभ्राभेदः भावनाया शुभ्रभेदवानित्यस्य स्वातन्त्र्येण प्रतिबन्धकत्वं कल्प्यमिति