________________
समासशक्ति निर्णयः ।
काशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् ।
अथ प्रत्यय प्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमिति चेद् ? न । 'गामानयति कृष्णो दण्डेन' इत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् । अथ समस्यमानपदार्थगत स्वार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेद् ? न । अक्लृप्त कल्पनां क्लृप्तव्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिकू ।
२६३
दर्पणः
न्याऽर्थः ॥ *आकाशवारणायेति । समवायेनोपस्थिताकाशे दृश्यर्थकर्मत्वाद्यन्वयवा रणायेत्यर्थः ॥ *वृत्त्या प्रकृत्यर्थत्वस्येति । वृत्तिजन्योपस्थितिविषयत्वस्येत्यर्थः ।
'वादिवाक्ये यावन्तोऽर्थाः सम्भवन्ति' इति न्यायेनोक्तव्युत्पत्तिं दूषयितुमर्थान्तरपरतया व्याचष्टे – *अथेति ॥ पूर्वं तु प्रत्ययसन्निहितपदार्थत्वं प्रकृतित्वमत्र तु तत्प्राग्वतिपदार्थत्वमिति भेदः ॥ *प्रसङ्गादिति ॥ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविषयतायाः कृष्णे सत्त्वादिति भावः ॥ प्रत्ययानामिति व्युत्पत्तेरेकार्थीभाववादिमते सत्वेऽपि नाऽस्मन्मते सा सार्वत्रिकी । समास एवाऽसम्भवात् । किन्तु प्रकृते व्युत्पः त्यन्तरमेव कल्प्यते इत्यभिप्रेत्याह- अथेति । अक्लप्तकल्पनामिति । समस्य मानपदाऽर्थविषयतानिरूपितविषयतासम्बन्धेन शाब्दं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः कारणत्वाऽन्तरकल्पनामित्यर्थः ।
ननु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वरूपा व्याससमाससाधारण्येनैकैव व्युत्पत्तिः, सन्निहितत्त्वं च प्रकृतिघटकत्वे सति प्राग्वर्त्तित्वमिति नोक्तदूषणमत आह*दिगिति* ॥ तथा कल्पने चोक्तव्युत्पत्यपेक्षया पदत्वस्य प्रकृतित्वघटितस्य व्युत्पत्तौ निवेशे गौरवमित्यादिदिगर्थः ॥ ॥
ननु 'प्रत्ययानाम्' इति व्युत्पत्तेः प्रकृतिप्रत्ययघटिततया तत्र प्रकृतित्वप्रत्ययत्वपरीक्षा कुम्भपदपिप्पलीपदयोर्लक्षणायामपि पूर्वपदस्य तात्पर्यग्राहकतया कुम्भसमीपोपस्थितौ प्रकृतिप्रयोज्यत्वसत्वादिति भावः । *वृत्येति । वृत्त्येत्यस्य तृतीयस्य प्रकृत्यर्थत्वघटकजन्यतायामन्वयाभिप्रायेणेदम् ।
पूर्वोक व्युत्पत्तेरेवार्थान्तराभिधानेनाशङ्कते -*अथेति । उपकुम्भमित्यादावव्ययीभावस्थले न लक्षणा, तत्र पूर्वपदस्याव्ययतया तदर्थैकदेशार्थे निरूपितत्वसम्बन्धेन कुम्भपदार्थोपस्थितिः । न च निरूपितत्वसमन्वये पदसम्बन्ध इति वाच्यम् ? अव्ययातिरिक्तनामार्थयेारेव भेदसम्बन्धेनान्वयव्युत्पत्तिस्वीकारात् । अर्द्धपिप्पलीत्यादौ तु पिप्पलीपदस्य पिप्पलीसम्बन्धिनी लक्षणाश्रीयते, उभयथाऽपि प्रत्ययप्राग्वर्त्तिपदजन्यत्वमुपस्थितावस्त्येव, प्राग्वर्त्तित्वस्याव्यवहितत्वाघटितत्वादिति भावः । *कृष्णे तृतीयार्थेति । कृष्णपदार्थे तृतीयार्थस्य करणत्वस्य विशेष्यविधयाऽन्वयापत्तिरित्यर्थः । तस्यापि तृतीयाप्राग्वर्त्तिपदार्थत्वात् । समासस्थले व्युत्पत्यन्तरमस्त्वीत्याशयेन शङ्कते- -*अथ समस्यमानेति ।
1
*अक्लृप्तकल्पनाम्*
व्युत्पत्यन्तरकल्पनाम् ।