________________
२६२ दर्पणपरीक्षासहिते भूषणसारेअर्थवत्सूत्रेण विशिष्टस्यैव प्रातिपदिकत्वेन विशिष्टोत्तरमेव विभक्त्य:नुशासनात् । - अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि, 'पङ्कजमानय', 'दण्डिनं पश्य', शूलिनं पूजय' इत्यादौ पदण्डशूलेध्वानयनदर्शनपूजनादेरन्वयप्रसङ्गः । 'अघटमानय' इत्यत्र घटेऽप्या. नयनान्वयापत्तेश्च । ____नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः। 'पाकानीलः' 'धर्मात् सुखी' इत्यादौ पाकधर्मादिजन्यताया रूपसुखादावनन्वयप्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तजन्यज्ञानविषयत्वमात्रम् , तश्चात्राविरुद्धमिति, तन्न । घटं पश्येत्यत्र घटपदात् समवायेनोपस्थिता
दर्पणः पूर्वसूत्रेणैव सा वाच्या । तथाचोक्तप्रकाराऽसम्भव इत्याशयेनाह-*अर्थवत्सूत्रेणेति । तथाच-शास्त्रबोधितसन्निहितत्वमपि विशिष्टस्यैव, न केवलपूर्वपदस्येत्युक्तस्थले व्यभिचारो दुरुद्धर इति भावः । प्रकृतित्वस्य पर्याप्त्याख्यविलक्षणसम्बन्धेन समुदायमात्रविश्रान्तत्वेऽपि केवलाश्रयतया तद्वत्त्वस्य प्रकृत्येकदेशेऽपि सम्भवादुक्तव्युत्पत्तिशरीरे आश्रयतैव निवेशनीयेत्याशयेन शङ्कते-*अथेति ॥ *प्रकृतित्वाश्रये । प्रकृतित्वाश्रयार्थे । असन्निहितप्रकृत्यर्थे दूषणमुद्भाव्य सन्निहितेऽपि तदाह-*अघटमिति ॥ पूर्वपदार्थप्राधान्यमत्रेत्याशयेन दूषणोद्भावनम् । तत्त्वं चाऽग्रे वक्ष्यते ।
विशेषणतयेति ॥ एकत्र विशेषणतयावरुद्धस्यापरत्र तदन्वये नैराकाङ्क्षयादिति भावः। यत्र क्वाऽपि विशेषणेनापरान्वय इति यथाश्रुतं दूषयति-*पाकान्नील इत्यादि। नीलत्वसुखयोः स्वाश्रये विशेषणतयान्वितयोः पाकादित्याद्यन्तर्गतपञ्चम्यर्थहेतुत्वस्यानन्वयापत्तेरित्यर्थः ॥ *तजन्यज्ञानविषयत्वमिति ॥ तत्पदार्थः प्रकृतिः । मात्र. पदेन वृत्तिप्रतिपाद्यत्वस्य व्यवच्छेदः। अत्र चित्रग्वादिसमासाऽन्तर्गतगवादिपदार्थे इत्यर्थः ॥ *अविरुद्ध मिति । अबाधितमित्यर्थः । 'घटं पश्य' इत्यत्र दृशिर्ज्ञानसामा
परीक्षा शेषः। विशिष्टोत्तरमेवेति । तथा च समस्यमानपदोत्तरमित्यसङ्गतमिति भावः । *प्रकृतित्वाश्रये । प्रकृतित्वाश्रयाथें । प्रकृतित्वस्याव्याप्यवृत्तितयावयवेऽपि तस्य सत्वमित्यभिप्रायः। परोक्तमभ्युपेत्य तद्रीत्यैव दूषणमाह-*अथेति*। *अन्वयप्रसङ्ग इति । एतेषामपि भवत्सम्मतप्रकृतित्वाश्रयार्थत्वात्। विशेषणतयेति । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति न पूर्वोक्तापत्तिरिति भावः । *पाकान्नील इति । अत्र नीलपदस्य नीलरूपविशिष्टे भवन्मते लक्षणा । तत्र नील. रूपस्य पाकजन्यतया तत्र पञ्चम्यान्वयेऽपि नैकविशेषणतयेति पूर्वोक्तव्युत्पतिविरोधः किन्तु स्वाश्रयांशे विशेषणत्वान्न तत्र तस्यान्वयसम्भवः । 'नापाघेरुपाधिर्भवति इति-"विशेषणस्य वा विशेषणम् इति भाष्यकृदुक्तः। सुमुखीत्यत्र सुमुखस्य इन्प्रत्ययप्रकृतिप्रतिपाद्यत्वेनाश्रयविशेषणत्वं स्पष्टमेव । प्रकृत्यान्वितस्वार्थबोधकमिल्यत्र प्रकृत्यर्थत्वं न शक्त्या प्रकृतिजन्यज्ञानविषयत्वम्। किन्तु प्रकृतिप्रयोज्यत्वं ज्ञाने विशेषणमित्याशयेन शङ्कते-*यच्चेति । उपकुम्भम् अर्द्धपिप्पलीत्यादौ । अविरूद्धमिति।