SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ . समासशक्तिनिर्णयः । २६१ प्रकृत्यर्थान्वित स्वार्थबोधजनकत्वव्युत्पत्तेः । विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् । यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति ; तन्न । ‘उपकुम्भम्’, ‘मर्द्धपिप्पली' इत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् । नच तत्रापि सन्निधानमेव । अनुशासनिक सन्निधेर्विवक्षितत्वात् । तथाच यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं स्वार्थं बोधयति । समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् ! दर्पणः प्रत्ययानामिति व्युत्पत्तिर्हि दण्डिनमानयेत्यादौ दण्डादौ कर्मत्वाऽन्वयवारणाय स्वीक्रियते । तदर्थ एव 'प्रकृत्यर्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितित्वेन हेतुता इति तत्र प्रकृते सन्निहितत्वेनैव निवेशस्तावतैवोक्तस्थले व्यभिचारवारणान्न तु प्रकृतित्वेन, गौरवादिति मतं दूषयितुमुपन्यस्यति—*यत्त्विति । *सन्निहितेति । सन्निहितत्वं चाव्यवहितपूर्वत्वेनाऽनुसन्धीयमानत्वम् तस्य च चित्रग्वादिपदे गवादौ सत्वान्नोक्ताऽनुपपत्तिरितिभावः । व्युत्पत्तिरेवेत्येवकारेण पूर्वोक्तप्रकृतित्वघटितव्युत्पत्तिव्यवच्छेदः, उपकुम्भादौ व्यभिचारोद्भावनं तु प्राचीनमते । नव्यनये तत्रोत्तरपदे लक्षणाऽभ्युपगमेन तदप्रसक्तेः ॥ तत्राऽपि* । उपकुम्भादिसमासेऽपीत्यर्थः । I *आनुशासनिकेति । सन्निहितत्वं नाऽव्यवहितपूर्वत्वम् । तत्वेनाऽनुसन्धीयमानत्वं वा । धवखदिरावित्यादौ धवादिपदार्थे विभक्त्यर्थानन्वयप्रसङ्गात् । किन्तु सन्निहितत्वेनाऽनुशासनबोधितत्वम् । तच्च धवादिपदार्थानामिवोपादिपदार्थानामस्तीत्याशयवानाह - *तथाचेति । *समस्यमानपदोत्तरमिति । समासस्याऽनेक पदसमुदायात्मकतया समुदायस्य प्रत्येकाऽनतिरिक्ततया समासरूपप्रातिपदिकात् विहितविभक्तस्तत्तत्पदसन्निहितत्वादिति भावः । सम्भवेदेवं यदि समासग्रहणनिबन्धना प्रातिपदिकसंज्ञा, किन्तु तस्य नियामकतया परीक्षा र इत्यादिः । *प्रकृतित्वादिति । तस्य च भवन्मतेऽर्थबोधकत्वाभावो नेति शेषः । पूर्वोक्तप्रकारमाशङ्कय निराचष्टे – यत्विति । *सन्निहितेति । सन्निहितत्वमव्यवहितपूर्वत्वेन प्रतिसन्धीयमानत्वम् । खण्डयति—*उपकुम्भमिति । अयम्भावः- समीपार्थे विद्यमानस्याव्ययस्य समांशवाच्यर्द्धशब्दस्य च समासविधानेन पूर्वपदस्य वाचकत्वमवश्यं वाच्यम्, तथा च सन्निहितार्थेऽनन्वयेन व्यभिचार इति सन्निहितपदाथइत्यत्र सन्निधानम्पारिभाषिकं निवेश्यत इत्याशयिकामाशङ्कां निरस्यति नचेति । *अनुशासनिकेति । अनुशासनप्रयोज्येत्यर्थः । *अनुशिष्टा* — अनुशासनेन विहिता । *अनुशासनमिति । विधायकमिति
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy