SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६० दर्पणपरीक्षासहिते भूषणसारेऽऽवश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव । तथाच प्रातिपदिकसंज्ञारूपं कार्यमेवार्थवत्त्वमनुमापयति धूम इव वह्निम् । किञ्चैवं चित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वयापत्तिः, प्रत्ययानां दर्पणः सूत्रस्य तु अव्युत्पन्नसाधुशब्दस्वरूपमेव, न तु बहुपटुरित्यादिसमुदायोऽप्युत्तरपदलाक्षणिकतादृशसमुदायस्याऽर्थवत्त्वाऽभावात् । कृदन्तानां केषाञ्चिदर्थवत्त्वेऽपि धातुत्वात् , एवं तद्धितानामपि इः इयानित्यादीनां प्रत्ययत्वेन तादृशसमुदायस्य त्वनर्थकत्वेन पूर्वसूत्राविषयत्वेन तत्र तत्र प्रातिपदिकत्वविधानार्थ सूत्रकारेण द्वितीयं सूत्रं प्रणीतम् । अत एवाऽत्रार्थवदिति नाऽनुवर्त्ततेऽसम्भवात्प्रयोजनाभावाच्च । तत्र कृच्छब्देन प्रत्ययपरिभाषया तदन्तग्रहणं संज्ञा विधावित्यस्य प्रायिकत्वात् । डतरादिवत्केवलकृतामप्रयोगेण तदुपादानवैयर्थ्याच्च । यद्यप्युक्तयुक्त्या तद्धितपदस्यापि तद्धितान्तपरतैव लभ्यते. तथापि बहुपवादिसङ्ग्रहाय तत्स्वाव्यवहितोत्तरत्वसम्बन्धेन तद्धितविशिष्टप्रकृतिघटितसमुदायतद्धितान्तान्यतरपरतया व्याख्येयम् । प्रकृतित्वं च प्रत्ययविधानावधित्वम् इः इयानित्यादौ तु प्रत्ययस्यैव तदन्तत्वान्न दोषः। पचतक्यादिसमुदायान्तर्गततद्धितप्रकृतेनिरुक्ततद्धितवैशिष्ट्याभावान्न तत्राsतिप्रसङ्गः। कृद्ग्रहणपरिभाषाया अनन्तरग्रहणज्ञापिताया असार्वत्रिकत्वाच्च, न मूलकेनोपदंशमित्यादावतिप्रसक्तिः । एवं समासग्रहणेनाप्यप्राप्तप्रातिपदिकसंज्ञाविधानाद्वाजपुरुष इत्यादिसमुदायात् स्वाद्युत्पत्तिः सुलभेति तत्र विशिष्टशक्त्यभ्युपगमो नि. प्रमाणकः । वाक्यस्य सा नेत्युक्तमेव । तत्र कोशादिना शक्त्यपरिच्छेदात्। ___ यत्र तु कोशादिकं परिच्छेदकं तत्र समासे पङ्कजादौ तां न निवारयामः। एवञ्च वाक्यस्याऽर्थवत्त्वाऽभावेन प्रातिपदिकसंज्ञाऽप्रसक्तेस्तदप्रवृत्तिरूपफलाऽभावेन समासग्रहणस्य नियामार्थत्ववर्णनमसाम्प्रतम् । भाष्ये तस्य नियमपरतया वर्णनं तु संसर्गस्य शक्यत्वमित्येकदेशिमतमनुसृत्यवेत्यरुचेराह-किञ्चैवमिति । एवं समासे विशिष्टशक्तयस्वीकारे। कर्मत्वाद्यनन्वयापत्तिरित्यस्य गवादिपदार्थे इति शेषः । तत्र हेतुमाह-*प्रत्ययानामिति । तथाच प्रकृतित्वं प्रत्ययविधानाऽवधित्वम् , न तु प्रत्ययाव्यवहितपूर्वत्वम् । बहुपटुरित्यादौ पटवादिशब्देऽव्याप्तेः। न च "तावेव सुप्तिङऔ यो ततः परौ, सैव च प्रकृत्तिराद्या" इति भाष्यात् प्रत्ययाऽव्यवहितपूर्वस्यैव प्रकृतित्वलाभ इति वाच्यम् । तदर्थानवबोधात् । यो ततो विधानावधेरसति विशेषानुशासने परौ तावेव सुप्तिडावित्युपलक्षणं, प्रत्यायान्तरस्यापि । यतो विहितौ सैव प्रकृतिरिति तदर्थात् । आयेत्यभ्यासाभिप्रायेण । तथाच समासोत्तरपदस्य विधानावधित्वरूपप्रकृतित्वाऽभावेन तदर्थे न कर्मत्वाऽऽद्यन्वयः सम्भवत्युक्तव्युत्पत्तिविरोधादिति भावः।। परीक्षा वुद्देश्यतावच्छेदकत्वेन । *धूम इव वह्निमिति । धूमो यथा वह्निमनुमापयति तथेत्यर्थः । समासादिः, विशिष्टोक्तः, प्रातिपदिकसज्ञकत्वात्-पङ्कजपदवत् , अनर्थकपदसमुदायो व्यतिरेके दृष्टान्तः । एका भावे साधकान्तरमाह-*किञ्चेति । अनन्वयापत्तिरेकार्थीभावानङ्गीका
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy