SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः . २५९ - वाक्ये शक्त्यभावेन शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्वस्याप्यसम्भवात् । । अथ “तिप्तस्झि" इत्यारभ्य “योस्सुप” इति तिप्प्रत्याहारो भाष्यसिद्धस्तमादाय "अतिप्प्रातिपदिकम्" इत्येव सूत्र्यताम् , कृतमर्थवदादिसूत्रद्वयेन । समासग्रहणश्च नियमार्थमस्तु । तथाच अतिपू---तिबन्तभिन्न प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादितिचेद् ? तथापि प्रत्येकं वर्णेषु संज्ञावारणायाऽर्थवत्त्वा. दर्पणः ..... ज्ञापकत्वं वृत्त्या बोधकत्वमुत ज्ञानजनकज्ञानविषयत्वमात्रम्। नाद्यः । वाक्ये लक्षणाs. भावप्रसङ्गात् । तदर्थस्य गभीराभिन्नस्य वृत्त्यबोध्यत्वात्। नान्त्यः । प्रत्येक वर्णानामर्थवत्त्वापत्त्या विभक्त्यापत्तेरिति स्वशक्यसम्बन्धो लक्षणेत्येवाङ्गीकरणीयम् । तथाव समासे तदसम्भवेन प्रातिपदिकसंज्ञाऽनुपपत्तिस्तदवस्थेति तदर्थे विशिष्टशक्तिस्वीकार आवश्यक इति।। . *भाष्यसिद्ध इति । “तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्" इत्यादेस्तत्राभिधानादिति भावः । *सूत्र्यतामिति । “अतिप्समासश्च प्रातिपदिकम्" इत्येव सून्य. तामित्यर्थः । तथा च तिसुबन्तभिन्नं यत्तत्प्रातिपदिकमित्यर्थन समासस्य प्रातिपदिकत्वालाभादतिरिच्यमानं समासग्रहणं नियमार्थमस्त्वित्यर्थः । *प्रत्येक वर्गवि. ति* । वर्णानामानर्थक्यपक्षे प्रातिपदिकसंज्ञायां प्रकाशनीयाऽर्थाभावादविशेषेण प्रतिवर्ण विभक्तिसम्भवादव्ययादिवेति भावः । *अर्थवत्त्वेनेति* अर्थवद्ग्रहणस्यावश्यकत्वेनेत्यर्थः। न चाऽर्थवत्समुदायघटकवर्णानामर्थवत्वपक्षस्याऽपि भाष्ये दर्शनात्तद्ग्रहणेऽपि वि. भक्तिर्दवारेति वाच्यम् ॥ तत्पक्षेऽपि "सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्" इति भाष्यात्तन्त्रेगैकैव विभक्तिः समुदायाऽवयवार्थगतमेकत्वं बोधयेत् । एकमेव तदेकत्वं तच्चैकेन सुपा प्रत्यायितमिति बोधनीयाऽभावाद् विभक्तेः प्रत्येकवर्णादनुत्पत्तेरिति भावः। ननु समासवाक्यस्याऽर्थवत्वाऽभावेऽपि न प्रातिपदिकसंज्ञाऽनुपपत्तिः । "कृत्तद्धित" (पा०सू० १११।४६ ) इति सूत्रेणैव तत्सम्भवात् । सम्भवति विधित्वे नियमकल्पनाया अन्याय्यत्वात् । समासग्रहणमेव च समास एकार्थीभावाभावे वा मानम् । वाक्यस्य तु न पूर्वसूत्रेण तत्प्रसक्तिरर्थवत्त्वाऽभावात् । संसर्गस्याऽशक्यत्वेऽप्याकाकादिवशादेव तद्भानस्य सूपपादत्वात् । एवं प्रकृतिप्रत्ययसमुदायस्याऽप्यनर्थकत्वेनाs. प्राप्तसंज्ञाविधानार्थं कृत्तद्धितग्रहणमिति समस्तस्यैव सूत्रस्य विधायकत्वम् । आद्य परीक्षा . सूत्रभङ्गान समासादिसमुदायस्य प्रातिपदिकसञ्ज्ञां साधयति-- अथेति । *भाष्यसिद्ध इति । नचैकादेशे प्रतिषेधोऽन्तवत्वादिति तत्राभिहितम् , अतिप्स. मासश्च प्रातिपदिकत्वस्य सिद्धेरिति भावः । *तथापि*-अतिप्प्रातिपदिकमिति न्यासेऽपि । *अर्थवत्वावश्यकत्वेन*-अर्थवत्वस्य . प्रातिपदिकसज्ञाप्रवृत्ता
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy