SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५८ दर्पणपरीक्षासहिते भूषण सारे - ताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् । समास दर्पण: यति - *अत्रोच्यत इति । संज्ञादीत्यादिना पदत्वादिपरिग्रहः ॥ भाष्यसिद्धाया इति । " समासग्रहणमर्थवत्समुदायानां नियमार्थम्” इति भाष्यसिद्धाया इत्यर्थः । *स्पष्टमिति* । वाक्यस्याऽप्यर्थवत्त्वेन प्रातिपदिकत्वप्रसक्तौ तद्व्यावृत्तये वचनारम्भमाशङ्कय नियमार्थेन समासग्रहणेन समाहितम् । समासे शक्त्यनभ्युपगमेतु तस्य वृत्त्याथ बोधकत्वरूपाऽर्थवत्त्वाऽभावेनाऽप्राप्तसंज्ञाविषये तस्याssवश्यकतया नियमार्थत्वव्याघातः स्पष्ट एव । तस्मादेतद्भाष्यमपि समासे विशिष्टशक्तौ मानमिति तत्रोक्तत्वादित्यर्थः ॥ न चाऽर्थवत्पदसामथ्र्येंनाऽर्थवाचकपदघटितेऽपि प्रातिपदिकसंज्ञासिद्धिः । अन्यथा धात्वादिपर्युदासेनैवाऽर्थवत्त्वे लब्धे तदुपादानवयर्थ्यं स्पष्टमेव । 'दशदाडिमानि' इत्याद्यनर्थकसमुदायस्य तु नियमेन वारणीयत्वादिति वाच्यम् । अर्थवद्ग्रहणस्योत्तरार्थतायाः सिद्धान्तसिद्धत्वेन तत्सामर्थ्याऽभावाद्, “अर्थवद्ग्रहणं संज्ञिव्यपदेशार्थम्” इति भाष्येणार्थत्वेन सादृश्यबोधनार्थं तदुपयोगदर्शनाच्चेति विशिष्टशक्त्यभ्युपगममन्तरेण समासे प्रातिपदिकसंज्ञादौर्भिक्ष्यमेवेतिभावः । ननु चित्रगुरित्यादौ विशिष्टे शक्त्यस्वीकारेऽपि नाऽर्थवत्त्वनिबन्धनप्रातिपदिकसंज्ञाऽनुपपत्तिः । तथाहिहै-न शक्यसम्बन्धो लक्षणाः, 'गभीरायां नद्यां घोष:' इत्यादावसम्भवात् । तत्र तावन्न गभीरपदं तीरलक्षकं नद्यामित्यस्याऽनन्वयापत्तेः, न हि तीरं नदी, अत एव नदीपदमपि न तथा । गभीरपदाऽर्थस्यानन्वयापत्तेः । न च पदद्वये प्रत्येकं सा । विशिष्ट नदीतीराऽभानप्रसङ्गात् । न च नदीपदेनैव गभीरनदीतीरं लक्ष्यते, भीरादिपदं तात्पर्य्यग्राहकमिति वाच्यम् । गभीरपदस्य तात्पर्यग्राहकत्वमुत नदीपदस्येति विनिगमनाविरहात् । नच नदीपदस्य द्रव्यवाचकतया साक्षात्सम्बन्ध एव लक्षणायां विनिगमक इति वाच्यम् । गभीरपदस्याऽपि नित्यं गुणिवाचकतया तदर्थस्याऽपि साक्षात्सम्बन्धाऽविशेषात् । तस्मात् पदद्वयलक्षणायां गौरवात् समुदाय एव साऽङ्गीकार्य्या । अत एवार्थवादवाक्यानां प्राशस्त्ये लक्षणेति सङ्गच्छते । किन्तु स्वबोध्यरूपैव सा । अस्ति च गभीरायां नद्यामित्यत्र वाक्यज्ञाप्या गभीराभिन्ननदी तत्सम्बन्धस्तीर इति । एवञ्च चित्रगुरित्यादिसमुदायस्य लक्षणया चित्राऽभिन्नो गोस्वामिरूपार्थबोधकत्वरूपाऽर्थवत्त्वात् प्रातिपदिकसंज्ञा नाऽनुपपन्नेत्यत आह- *समासवाक्य इति । वाक्य इत्युक्त्या क्वचित्तत्सम्भवेऽपि सर्वत्र राजपुरुषादिसमासे तदसम्भवं सूचयति । अयमाशयः - स्वज्ञाप्यसम्बन्धस्य न लक्षणात्वम्, अपभ्रंशेऽपि तत्प्रसङ्गात् । किञ्च स्वज्ञाप्य इत्यस्य स्वनिष्ठज्ञापकता निरूपकज्ञाप्यतावदर्थं सम्बन्ध इत्यर्थो वाच्यः । तत्र परीक्षा भावाद् *समुदायस्यार्थवत्वाभावाद् । वृत्त्याऽर्थबोधजनकत्वं त्वर्थवत्वमिति सिद्धान्तात् । *सेति* - प्रातिपदिकसञ्ज्ञेत्यर्थः । *तस्य - समासग्रहणस्य । न च शक्त्या - र्थबोधकत्वमर्थवत्वम्, किन्तु वृत्या इत्यस्य निवेशोऽस्तु । एवञ्च शक्त्यभावेऽपि लक्षणायाः स्वीकारान्नानुपपत्तिरत आह- समासवाक्य इति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy