SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २५७ अत्रोच्यते-समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । अर्थवत्त्वाभावाद्, "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (पा० सू० ७।१। ४५) इत्यस्याप्रवृत्तेः । न च "कृत्तद्धितसमासाश्च" (पा० सू० १।२।४६) इत्यत्र समासग्रहणात् सा । तस्य नियमार्थ __परीक्षा पूर्वपदं तात्पर्य्यग्राहकम् । यत्रानेकपदानां द्वन्द्वः, तत्राप्युत्तरपदस्यैव सर्वार्थसमाहारे लक्षणा, अन्येषान्तात्पर्य्यग्राहकता। समाहारः-समूहः, अपेक्षाबुद्धिविशेषतया । न च तस्यां कर्मत्वाद्यनन्वय इति वाच्यम् ? परम्परया तदन्वयसम्भवात् । इतरेतरयोगद्वन्द्वे यदि सहित्यानुभवोऽस्तिः तदा तूत्तरपदस्य धवरादिरावित्यादौ साहित्यविशिष्टधवखदिरयोर्लक्षणा। अत एव तयोः सामर्थ्यात्समाससञ्ज्ञा। सामर्थ्यस्य साक्षात्परम्परया वाखण्डप्रयोज्यविषयतानिरूपिता या विषयता तन्निरूपकत्वरूपतया साहित्यनिरूपितविषयताद्वारा धवनिष्ठविषयतायाः खदिरनिष्ठविषयतायाश्च निरूप्यनिरूपकभावात् । द्विवचनाद्यर्थद्वित्वादेः साहित्यावच्छिन्नेऽन्वयः, यदि तु द्वन्द्वविषयेऽपि न साहित्यप्रतीतिस्तदा कस्यापि पदस्य न लक्षणा । अत एवोभयपदार्थप्रधानो द्वन्द्व इति सङ्गच्छते । समाहारेतरेतरयोग इति व्यवहारभेदस्तू "द्वन्द्वश्च पाणितूर्य” इत्यादिसूत्रप्रवृत्यप्रवृत्तिसाध्यः। साहित्यस्यैकक्रियान्वयित्वरूपस्य तूत्तरकालम्मानसो बोधः। “चार्थे द्वन्द्वः” इति सूत्रस्य चार्थान्वययोग्यार्थकानां द्वन्द्वसञ्ज्ञा भवतीत्यर्थः । अत एव गीतायाम्-'द्वन्द्वः सामासिकस्य च' इत्युक्तम् । समा. ससमूहमध्य इत्यर्थात् । समासान्तरे पूर्वपदार्थोत्तरपदार्थयोर्विशेष्यविशेषणभावो द्वन्द्वे तूभयोर्बहूनां वा समप्राधान्यमित्यस्य समासान्तराच्छ्रेष्ठत्वमिति । न च साहित्यस्य शाब्दबोध्यत्वाभावे पूर्वोक्तसामर्थ्याभावाद्धवन्छिन्धि खदिरम्पश्येत्यत्रेव द्वन्द्वो न स्यादिति वाच्यम् ? द्वन्द्वोत्तरद्विवचनाद्युपस्थाप्य द्वित्वादिविषयतामादाय सामर्थ्यसम्भवात् । एवञ्च व्यपेक्षैव सामर्थ्यम् । सामर्थ्यस्यैतद्रूपत्वम् "इसुसोः सामथ्यें" इत्यत्र क्लप्तम् । किञ्च व्यपेक्षायाः सामर्थ्यरूपत्वे पराङ्गद्धावस्थलेऽपि तस्याः सम्भवेनैकरूपनिर्वाहः । अत एव "ऋतेन मित्रावरुणवृता वृधा वृतस्य शौ"इत्यादौ ऋतेनेत्यादेः पराङ्गवद्भावे सत्यामन्त्रितस्याद्युदान्तत्वापत्तिवारणाय-आरुन्धस्यामन्त्रितार्थस्य [यन्निमित्तन्तद्वाचकं यत् सुबन्तन्तत्रागवगवतीत्यर्थकम् ]-"यनिमित्तग्रहणङ्कतं. व्यम्" इति वार्तिकम्, तस्य "समर्थानुवृत्या सिद्धम् इत्यनेन प्रत्याख्यानपरभाष्य सङ्गच्छते । “समर्थः पदविधिः" इति सूत्रस्य पदसम्बन्धीविधिः साक्षात्परम्परया वा स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वरूपसामर्थ्यवदाश्रितो बोद्धव्य इत्येवार्थः । न च द्वन्द्वसमासस्य साहित्यानभिधायकत्ववद् द्विगोरप्येतन्मते समाहारानभिधायकत्वे पञ्चखट्वीत्यत्र “आबन्सो वा इति नपुंसकत्वाभावे उपसर्जनहस्वत्वे समासाकारोत्तरपदकद्विगुत्वात्स्त्रीत्वे सति "द्विगोः इति ङीब् भवति, स न स्यात् । समाहारस्य वाच्यत्वे तु तत्रैकार्थीभावस्यावश्यकतेति वाच्यम् ? समाहार इत्यस्य समाहारेऽपि विधित्सत इत्यर्थात् । सचोत्तरपदस्य लाक्षणिकत्वेन पूर्वपदस्य तात्पर्य्यग्राहकतया च तत्रापि सम्भवतीति नानुपपत्तिरिति । स्वसिद्धान्तमाह-*अत्रोच्यत इत्यादिना* । *तस्य*-समासस्य । *अर्थवत्वा. ३३८०प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy