SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५६ दर्पणपरीक्षासहित भूषणसारे वर्णस्यैव वाचकत्वं मीमांसकम्मन्यरित्याहुः। दर्पणः समासशब्दात्तदनभिधानात् । “द्वन्द्व रहस्य” (पा० सू० ८।१।१५ ) इत्यनेन रहस्ये व्युत्पादितद्वन्द्वस्य नित्यनपुंसकत्वेन पुंल्लिङ्गस्य तद्वाचित्वाऽसम्भवात् । समासवाचिनश्च तस्य पुंलिङ्गतायाः “चाऽर्थे द्वन्द्वः” (पा० सू २।२।२८) इत्यादौ दृष्टत्वात् पारिभाषिकत्वाच्च तेन समासस्यैव ग्रहणस्यौचित्याञ्च चिन्त्यम् ।.. न च साहित्यामानेऽन्यतरस्य क्रियाऽन्वयविवक्षायां, पश्य धर्व, खदिरं छिन्धीति. वाक्यवत् पश्य धवखदिरौ छिन्धीति प्रयोगापत्तिरिति वाच्यम् । प्रत्ययार्थद्वित्वाऽवच्छिन्नधर्मिकस्यैव पदार्थाऽन्तरान्वयबोधस्याऽन्यत्र दर्शनेनाऽत्रापि तदवच्छेदेनाऽन्वयस्यैवोचितत्वात् । न च द्वित्वाऽन्वययोग्यताऽवच्छेदकसाहित्यभानमन्तरेण द्वित्वाऽन्वय एव दुर्लभ इति वाच्यम् । योग्यताऽवच्छेदकोपस्थितेरनपेक्षणाद् उपस्थितेर्योग्य एव तदन्वयात् । अत एव 'घटेन जलमानय' इत्यत्र च्छिद्रतरस्यैव योग्यताबलेनाऽन्वयः । न तु छिद्रेतरत्वप्रकारकः शाब्दबोधः। तत्र प्रकृत्यर्थतावच्छेदकस्यैव द्वित्वान्वययोग्यतावच्छेदकत्वेऽपि क्षतिविरहाच्च । विवेचितं चेदमधिकमन्यत्र । न च "क्षौमवसनावग्निमादधीयाताम्" इत्यत्र समुच्चयलाभो न स्यादिति वाच्यम् । “यत् कर्त्तव्यं तदना सह" इतिवचनान्तरात्तत्सिद्धः। यद्यपि द्वन्द्वे परस्परान्वयित्वरूपव्यपेक्षा दुर्घटा ; तथापि "चाऽर्थे द्वन्द्वः" (पा०सू०२।२।२९) इति विधिसामर्थ्यादेव तत्र समासः, तदर्थस्तूक्तः । समुच्चयान्वाचययोस्त्वनभिधानादेव न द्वन्द्व इति स्पष्टं भाष्ये । यत्त्वेकस्यां क्रियायामेकरूपेणाऽन्वयित्त्वमेव तत्र सामर्थ्य मिति ; तन्न । क्वचिदेतस्य क्वचित् पूर्वोक्तस्य सामर्थ्यस्याश्रयणे समर्थसूत्रे वाक्यभेदापत्तेरिति पूर्वोक्तापत्तिमिष्टत्वेनाऽपि परिहरति-*स्वीकृतमिति। *चरमवर्णस्यवेति ॥ पूर्वपूर्ववर्णाऽनुभवजन्योबुद्धसंस्कारसहितान्तिमवर्णस्येत्यर्थः । नाऽतः केवलचरमवर्णादर्यबोधापत्तिः । अधिकमग्रे वक्ष्यते ॥ "व्यपेक्षायां सामध्ये समास एकोऽसगृहीतो भवति" इति भाष्याशयं प्रकाशयन्नैयायिकमतं दूष परीक्षा इति । घटादिपदात्समासस्य लक्षणायां वैषम्यमित्यर्थः। तथाचोत्तरस्य बहुव्रीहौ लक्षणा सम्भवतीति भावः । यदुक्तं समासदृष्टान्तेन घटादिपदेष्वपि चरमवर्णस्यैव बोधकत्वापत्तिरिति तत्रेष्टापत्या तामापत्ति परिहरति-*स्वीकृतञ्चेति । *मीमांसकमन्यैरिति । अनेन चरमवर्णस्याबोधकत्वे-एव सर्वानुग्रहो न तु चरमवर्णस्य वाचकत्व इति-इष्टापत्तिरनुचितेति सूचितम् । *इत्याहुरिति । अत्र बहुत्वप्रदर्शकवचनेनान्योऽपि तदीयोक्तोऽर्थः सगृहीतः। तथाहि-उपकुम्भमित्यादौ प्रत्ययार्थान्वयः पूर्वपदलक्ष्यार्थ एवेतिचेदुक्तव्युत्पत्तिभङ्ग इति तत्राप्युत्तरपदस्यव कुम्भसमीपे लक्षणा पूर्वपदन्तात्पर्यग्राहकम् । तत्पुरुषेऽप्येकदेशिसमाशे उत्तरपदस्य लक्षणाकर्मधारयसमासे तु न कस्यापि लक्षणाः किन्तु शक्त्योपस्थितस्य पूर्वपदार्थस्योत्तरपदार्थेऽभेदसम्बन्धे. नान्वयः । समाहारद्वन्द्वे उत्तरपदस्य पाणिपादमित्यादौ पाणिपादसमाहारे लक्षणा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy