________________
समासशक्तिनिर्णयः ।
त्त्वात् । प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वय सौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः । स्वीकृतञ्च घटादिपदेष्वपि चरम
२५५
दर्पणः
दिना तत्रैव तन्निर्द्धारणादिति भावः ॥ अशक्तत्वादित्यस्य, येन तत्रापि विनिगमकंगवेषणा स्यादिति शेषः । *उत्तरपद इति । प्राप्तोदका दिघटकोदकादिपदे इत्यर्थः ॥ सालक्षणा । *विशेष इति । घटादिपदात् समासस्य लक्षणाया वैषम्यमित्यर्थः ॥
अत्रेदं बोध्यम्-उक्तयुक्त्योपकुम्भमित्यादावुत्तरपदस्यैव समीपाद्यर्थे लक्षणा, पूर्वपदं तात्पर्य्यग्राहकम् । तत्पुरुषेऽपि क्वचिदर्द्धपिप्पलीत्याद्येकदेशिनि चरमपदस्यैव सा । पिप्पल्यर्धाद्यर्थे इतरद् द्योतकम् । नीलोत्पलमित्यादिकर्मधारये तु न क्वापि सा, प्रत्येकपदशक्त्युपस्थितयोरभेदाऽन्वय सौलभ्यात् । बहुव्रीहौ तूत्तरपद एव सेति सार एव व्यक्तम् । पाणिपादमिति द्वन्द्वेऽप्युत्तरपदस्य पाणिपादसमाहारे लक्षणा, पदान्तरं द्योतकम्, तत्रैव परम्परया वादन कर्मत्वान्वयः । एवमितरेतरयोगद्वन्द्वे साहित्यापन्नप्रत्येकपदार्थयोरुत्तरपदस्यैव सा । अत एव द्विवचनाद्यर्थद्वित्वाद्यन्वयस्तत्र । समाहारद्वन्द्वे साहित्यं विशेष्यमत्र तु विशेषणमिति भेदः ।
1
यद्वा समाहारद्वन्द्वेऽपि साहित्याऽप्रतीतेर्न तत्र लक्षणा, किन्तु प्रत्येकपदशक्त्युपस्थाप्ययोरेव साक्षाद् वादनकर्मत्वाऽन्वयः । “द्वन्द्वश्च प्राणि” (पा०सू० २।४।२) इति प्रकरणातिदिष्टैकत्वसमासस्य समाहारपदव्यपदेश्यत्वम् । इतरत्र तु तद्वयवहार औपचारिकः । नापि इतरेतरयोगे तत्प्रसङ्गः । एवमितरेतरयोगे द्वन्द्वेऽपि न लक्षणा । एकस्मृत्यारूढपदद्वयात् प्रत्येकशक्त्युपस्थिताऽर्थयोर्द्वित्वाऽन्वयसम्भवाद् । एकक्रियाऽन्वयित्वरूपस्य एकबुद्ध्यवच्छिन्नत्वरूपस्य वा साहित्यस्य पश्चादेवाऽवगमेन पूर्व तत्र लक्षणाग्रहाऽसम्भवाच्च । “चाऽर्थे द्वन्द्व" इत्यस्य चाऽर्थाऽन्वययोग्य इत्यर्थान्न तद्विरोधोऽपि ।
युक्तं चैतत् । द्वन्द्वत्वाऽवच्छिन्नस्य प्रधानीभूताऽर्थद्वयप्रतिपादकत्वे एव, "द्वन्द्वः सामासिकस्य च" ( गीता ) इत्यनेन समाससमूहमध्ये द्वन्द्वस्य विभूतितया परिगण - नस्य भगवत्कृतस्य सङ्गतेः । विशिष्टशक्त्या लक्षणया वा तस्य प्रधानीभूतसमाहारप्रतिपादकत्वे तु समासान्तराद् द्वन्द्वस्याऽविशेषात्तदसङ्गतिः स्पष्टैव ।
यतु-भारतभावदीपे - सममेकत्राssसनं समासो, विदुषां गुरुशिष्याणां वा मन्त्रार्थं कथार्थं वैकत्राऽवस्थानम् । तत्र विदितमर्थजातं सामासिकम् । चातुरर्थिकष्ठक् । तस्य “स्येकः” ( पा० सू० ७।३।५० ) इतीकादेशः । “यस्येति च" ( पा० सू० ६।४।१४८ ) इत्यलोपः । तस्य मध्ये द्वन्द्वो रहस्योऽहम् । " द्वन्द्वं रहस्य" (पा०सू० ७११।१५ ) इति सूत्रे द्वन्द्वशब्दस्य रहस्यवाचित्वं शाब्दिकप्रसिद्धमिति व्याख्यातम् ।
तत्तु विदिताऽर्थस्य चातुरर्थ्यामदर्शनाद्रथन्तराऽधिकरणन्यायेन सांकेतितसमासशब्दात् पारिभाषिकसमासरूपाऽर्थस्यैवोपस्थितेरुचितत्वेन प्राप्तस्य सामूहिकठकः
परीक्षा
त्वस्यापीति । 'बोधकत्वं शक्तिः' इति मतेऽपि चरमवर्णमात्रे बोधकत्वं नास्ति तावन्मात्रादर्थप्रत्ययाभावात् । किन्तु घट इत्यादि समुदाये एव तस्य सत्वम् । *प्रकृते*समासस्थले । *सन्निधानेन * - उत्तरपदस्य सन्निधानेन । *सा* - लक्षणा । *विशेष