________________
२५४ दर्पणपरीक्षासहिते भूषणसारेबुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् । नाऽपि पङ्कजपदप्रतिबन्दी शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि बोधात् । ____ न च शक्त्यग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजादिपदशक्त्यग्रहे 'राजपुरुषः' 'चित्रगुः' इत्यादौ न बोधः । नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुव्रीहौ लक्षणाया असम्भवे बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । 'प्राप्तोदकः' इत्यादावुदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्यनुरोधाश्च ।
घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्ट कल्प्यते । विशिष्टस्यैव सङ्कोतितत्वात् । बोधकत्वस्यापि प्रत्येकं वर्णेष्वस
दर्पणः स्पष्टप्रतिपत्त्यर्थकतया वा तदुपयोगेऽपि न क्षतिरिति भावः । *प्रतिबन्दीति । पङ्कजादिपदे पद्मत्वादिविशिष्टशक्त्यभ्युपगमरूपेत्यर्थः । अवयवशक्तिमजानतोऽपीत्यपिना दृष्टान्तदान्तिकयोवैषम्य सूच्यते । *शक्त्यग्रहे* । अवयवशक्तिग्रहाऽभावे । *तेभ्यः* । पङ्कजादिपदघटकाऽवयवेभ्य इत्यर्थः । विशिष्टाऽर्थप्रत्यय इति । पद्मत्वाऽऽदिरूपेण पदमाऽऽदिबोध इत्यर्थः। लक्षणायाः शक्तिघटितत्वादिति भावः । *अत एवेति । तत्पदीयलक्षणाप्रहे तत्पदशत्तिज्ञानस्य हेतुत्वादेवेत्यर्थः । उत्तरपदलक्षणायां विनिगमकमाह-*यौगिकत्वेनेति । विलम्बितत्वादित्यनेन शीघ्रोपस्थितिकत्वमुत्तरपदलक्षणायां विनिगमकमिति सूचितम् । ___ ननु व्युत्पत्तिपक्षे यौगिकत्वमुदकाऽऽदिपदानामपि सममत आह-*प्रत्ययानामिति । यथाश्रतप्रकृत्यर्थत्वस्यादकादौ बाधात् प्रक्रत्यर्थपदमन्यथा व्याचष्टे-*सन्त्रिहितेति । दण्डिनमानय, इत्यादौ व्यवहितपदार्थदण्डादौ कर्मत्वाद्यन्वयवारणाय *सन्निहितेति । तथाच 'अणुरपि विशेषोऽध्यवसायकर” इति न्यायोनोत्तरपद एव लक्षणेति न बोधाऽऽवृत्तिरूपदूषणमपीति भावः । पूर्वोक्तदूषणान्तरमुद्धरति-*घटादिपदे चेति । कल्प्यमानेत्युक्त्या अक्लप्सत्वं सूचयति-*विशिष्टस्यैवेति । व्यवहारा
परीक्षा *नवा विभाषेतीति। पूर्वोक्तपङ्कजशब्दवदिति दृष्टान्तोपादान खण्डयति-*नापीति। *नचेति*-नहीत्यर्थः । लक्षणायाः शक्यार्थोपस्थितिपूर्वकत्वेन शक्यार्थग्रहाभावे लक्षणायास्तत्रासम्भवादिति भावः । *अत एव*-राजपुरुषादिसमुदाये प्रत्येकपदस्य बोधकत्वादेव । *न बोध इति* । शक्यार्थोपस्थित्यभावेन लक्षणयार्थापस्थित्यसम्भवादिति भावः। द्वितीयकारिकासूचितं दोष परिहरति-*नापि चित्रगुरिति । *विलम्बितत्वादिति । तथाच न पूर्वोक्तो विनिगमनाविरह इति भावः। उत्तरपद. स्यैव लाक्षणिकत्वे साधकान्तरमाह-*प्रत्ययानामिति । *अनुरोधाञ्चेति । उत्तर. पदलक्षणेति शेषः । यदुक्तम्प्राक् घटादिपदेष्वपीत्यादिना तत् खण्डयति-*घटादिपदे चेति । ननु चरमवर्णमात्रस्य सङ्केताभावेऽपि बोधकत्वमस्वित्याह आह-*बोधक