SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २५३ -: अत एव राज्ञः पदार्थेकदेशतया, न तत्र शोभनस्येत्यादिविशेषणान्वयः। न वा घनश्यामो निष्कौशाम्बिर्गोरथ इत्यादाविवादिप्रयोगापत्तिः। उक्तार्थकतयैव क्रान्तादिपदप्रयोगासम्भवात्। न वा "विभाषा" (पा०सू० २।७।११) इतिसूत्रावश्यकत्वम् । लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बुबोधयिषायां समासस्य राजसम्बन्धवानिति दर्पणः न च सम्बन्ध एव लक्ष्योऽस्त्वेवं च व्याससमासयोः समानाकारबोधजनकत्वप्रवादोऽप्युपपत्स्यते । राजाऽऽदिसम्बन्धरूपलक्ष्यार्थस्योत्तरपदाऽर्थे आश्रयतयाऽन्वयेनैवौपपत्तौ सम्बन्धिनि लक्षणाऽभ्युपगमे प्रयोजनाऽभावश्चेति वाच्यम् । 'राजा पुरुष इत्यादावपि राजादिपदार्थस्य स्वस्वामिभावसम्बन्धेन पुरुषादावन्वयवारणाय निपाताऽतिरिक्तनामार्थनिष्ठाभेदाऽतिरिक्तसम्बन्धाऽवच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धि प्रति विशेष्यतासम्बन्धेन प्रत्ययनिपाताऽन्यतरजन्योपस्थितेहेंतत्वस्यावश्यकतया प्रकृते राजसम्बन्धरूपनामाऽर्थस्य प्रत्ययनिपाताऽन्यतराऽनुपस्थितेः पुरुषादावन्वयाऽसम्भवात् निपातातिरिक्तत्वविशेषणात् 'चन्द्र इव मुखम्। इत्यादाविवपदार्थसादृश्यस्य नामार्थस्य प्रत्ययजन्योपस्थित्यविषये मुखे निपाताऽतिरिक्तनामार्थचन्द्रस्य तथोपस्थित्यविषये सादृश्येऽन्वयेऽपि न क्षतिः । अभेदाऽतिरिक्तसम्बन्धाऽवच्छिन्नत्वस्य प्रकारतायां निवेशाच्च 'राजा पुरुष' इत्यादावभेदाऽन्वयेऽपि न सा। न च समस्यमानाऽतिरिक्तत्वेनाऽपि नाम्नो विशेषणीयत्वान्न प्रकृतेऽनुपपत्तिरिति वाच्यम् । गौरवात्, क्वचिदगत्या सोचेऽपि सर्वत्र सङ्कोचस्यान्याय्यत्वाच्च । प्रकृते सम्बन्धिलक्षणाभ्युपगमरूपगतिसत्वात् । निपातानां द्योतकत्वनये घटादिपदानां घटादिप्रतियोगिकलाक्षिणकतयैवोपपत्तौ निपातातिरिक्तत्वस्याप्रवेशाच्चेति भावः । *अत एवेति । पूर्वपदस्य सम्बन्धिलाक्षणिकत्वादेवेत्यर्थः । *नविशेषणान्वय इति । “पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेरिति भावः। ननु गभीरायां नद्यां घोष' इत्यादौ नदीपदलक्ष्यनदीतीरार्थैकदेशनद्यादौ गभीराद्यन्वयवदत्राप्येकदेशाऽन्वयो दुर्वार इति चेद् ? न। दृष्टान्तासिद्धः। तत्राऽप्येतन्मते नदीपदस्य गभीरनदीतीरलक्षकताया, गभीरतात्पर्य्यग्राहकतायाश्च वक्ष्यमाणतया अदोषात्, तादृशव्युत्पत्तः ससम्बन्धिव्यतिरिक्तविषयतया चैत्रस्य नप्तेत्यादावेकदेशाऽन्वयेऽपि क्षतिविरहादिति । ___ *उक्तार्थतयेति । तत्र निरादीनां द्योतकतया कौशाम्ब्यादिपदस्यैव काशाम्ब्यवधिकनिष्क्रमणकाद्यर्थे लक्षणाऽभ्युपगमेनैवेप्सितार्थबोधोपपत्तौ क्रान्तादिशब्दा. नामुपादानाऽसम्भवादित्यर्थः । *आवश्यकत्वमिति । तेन पारायणादावदृष्टार्थकतया परीक्षा . . क्तिस्तदर्थ विशिष्ट लक्षणा स्वीक्रियत इति भावः । *अत एव*-राजपदस्य राजसम्बन्धे विशिष्टे लक्षणास्वीकारादेव । *प्रयोगासम्भवादिति । पूर्वपदस्य लक्षणया तद. र्थप्रतिपादकत्वसम्भवेन "उक्तार्थानामप्रयोगः” इति न्यायेन तदर्थप्रतिपादनाय प्रयो. गासम्भवादिति भावः । यदुक्तम्प्राक् विभाषावचन कार्यमिति तत्परिहारमाह
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy