SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५२ दर्पणपरीक्षासहिते भूषणसारेअगत्या शक्त्यन्तरकल्पनेत्यर्थः ॥ क्लप्तत्याग इत्यस्य क्लप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति ॥ तत् कि, सर्वत्र समासे शक्ति न कल्पयेरिति वाक्यार्थः॥ यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः । न समासे शक्तिः, राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्य. भिन्नः पुरुष इति बोधोपपत्तेः।। दर्पणः दिन इति समर्थसूत्रे "परस्पराऽन्वययोग्यत्वरूपसामर्थ्य मेव व्यपेक्षा' इति वादिन इत्यर्थः ॥ *न समासे शक्तिरिति । समासे राजपुरुषादिसमुदाये विशिष्टशक्तिनेत्यर्थः। समाससंज्ञाप्रयोजकत्वं क्लप्तप्रत्येकपदवृत्त्यतिरिक्त नास्तीति यावत् । संसृष्टार्थमिति भाष्यकारोक्तेः संसर्गस्य पृथुगुपस्थितिनिबन्धनत्वात् परस्परव्यपेक्षैव सामर्थ्यम् । "इसुसोः सामथ्यें” (पासू० ७।३।४४) इत्यत्र समर्थपदस्य तादृशाऽर्थकत्वस्य सवरेवाऽङ्गीकारात् , परागवद्भावानुरोधाच्च, अन्यथा समासादावेकार्थीभावः, पराङ्गवदावादौ व्यपेक्षेति वाक्यभेदापत्तेः । तत्र व्यपेक्षाऽनादरे तु, "ऋतेन मित्रावरुणावृतावृधावृतस्पृशौ” इत्यादावृतेनेत्यादेः परागवद्भावे सति, "आमन्त्रितस्य च" ( पा०सू० शश९८ ) इत्याद्युदात्तताऽऽपत्तिः । न च "तन्निमित्तग्रहणं कर्त्तव्यम्” इति वार्तिकेनामन्त्रितार्थस्य यन्निमित्तं तद्वाचकमेव पराङ्गवदित्यर्थकेन नियमितत्वात् पराङ्गवद्भावाऽप्रसक्तिरिति वाच्यम् । समर्थपरिभाषामाश्रित्य तत्प्रत्याख्यानस्यैव न्याय्यत्वात् । "ऋतेन मित्रावरुणौ” इत्येतयोः समभिव्याहृतक्रियान्वयित्वेन परस्परमसामर्थ्यात् "मित्रा वरुणावृतस्पृशो" एतयोस्तु पार्टिकाऽन्वयबोधसत्त्वादस्त्येव सामर्थ्यम् । स्पष्टं चेदं वेदभाष्ये। अत एवाऽनन्तरपाठोऽपि चरितार्थः। 'पुत्रो राज्ञः पुरुषो देवदत्तस्य' इत्यादौ निरुक्त. व्यपेक्षारूपसामर्थ्याभावादेव समासाऽप्रसक्तः। . __समर्थसूत्राऽर्थस्तु-पदसम्बन्धी समासादिविधिः साक्षात्परम्परया वा स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वरूपव्यपेक्षाऽऽपरनामकसामर्थ्यवत्पदाऽऽश्रितो बोध्य इति बहुव्रीहौ चित्राऽऽदिविषयतायाः साक्षात्प्रयोजकत्वाऽऽभावात्परम्परयेति । किञ्च वृत्तित्वाऽवच्छेदेनैकार्थीभाववादिमते स्वाऽवयवार्थाऽतिरिक्ताऽर्थाभिधाय. कत्वरूपवृत्तिलक्षणस्य कर्मधारयेऽव्याप्तिः। तत्राऽवयवार्थातिरिक्ताऽर्थवत्त्वाऽभावात्। वृत्तित्वसामानाधिकरण्येन तु रथन्तराऽऽदिशुद्धरूढे पडूजादियोगरूढे च कोशाऽऽदिसिद्धायाः समुदायशक्तेरस्माभिरप्यभ्युपगमेन सिद्धसाधनात् । शुद्धयौगिकचिऋग्वादिसमुदाये शक्त्यभ्युपगमस्तु कोशाऽऽद्यनुक्तत्वात्समासघटकप्रत्येकपदवृत्यवोपपत्तेश्च हेय इति तदभिसन्धिः । शक्तिकल्पकाऽनुपपत्त्यभावंतत्प्रयोजकतया दर्शयति*राजपुरुष इत्यादाविति । परीक्षा *एवञ्चेति । *इति वाक्याथ इति । तथाच न पौनरुक्त्यमिति भावः । *व्यपेक्षावादिनः । समर्थसूत्रघटकं सामर्थ्यम्परम्परान्वययोग्यार्थकत्वमापन्नमिति वादिनः । *बोधोपपत्तेरिति । तथाच तत्पुरुषस्थले विग्रहवाक्ये पूर्वपदाच्छूयमाणा या विभ.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy