SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ दर्पणपरीक्षासहिते भूषणसारेअत एव "वषट्कर्तुः प्रथमभक्षः” इत्यत्र न भतमुद्दिश्यप्राथ. म्यविधानं युक्तम् । एकप्रसरताभङ्गापत्तेरिति तृतीये । "व्यङ्गैः दर्पणः सारे-प्रातिपदिकार्थयोरिति प्रकृताभिप्रायेणैव । तथाच विरुद्धविभक्त्यप्रकृतिप्रातिपदिकार्थनिष्ठाभेदसंसर्गावच्छिन्न प्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे धातुप्रातिपदिकान्यतरजन्योपस्थितिः कारणमित्यर्थः फलित इति। __ ननु पूर्वनिरुक्तविरुद्धविभक्तिराहित्यस्याभेदान्वयबोधाकाङ्कत्वे 'चैत्रस्य सुतस्य धनम्' इत्यादौ तदापत्तिरत आह-*प्रपञ्चितमिति ॥ विभक्त्यर्थमन्तर्भाव्य नामाऑन्वय एवोक्तव्युत्पत्तिरिति तत्रोक्तम् । तस्यापि सार्थकविभक्त्यप्रकृतित्वमपि विशेषणवाचकपदे निवेशनीयमत्रेति तात्पर्य्यम् । मीमांसकैरपि विशिष्टशक्तिपक्षोऽभ्युपेय इत्याह-*अत एवेति । समासे एकार्थीभावस्य सर्वसम्मतत्वादेवेत्यर्थः। *भक्षमु. दिश्येति । "ऋत्विजो हविःशेषान् भक्षयन्ति” इति विहितभक्षणमनूयेत्यर्थः।। *एकप्रसरताभङ्गापत्तेरिति । उद्देश्यविधेयभावेनाऽन्वये पृथगुपस्थितेनियामकत्वेन तदनुरोधेन तदभ्युपगमे विशिष्टाऽर्थोपस्थितिजनकत्वरूपैकप्रसरताभङ्गापत्तेरि. त्यर्थः । तैर्विशिष्टशक्त्यनभ्युपगमेऽपि विशिष्टलक्षणाया अभ्युपगमेनैकप्रसरतायास्त. न्मतसिद्धत्वात् । न चोद्देश्यतयाऽन्वये यच्छब्दयोगप्राथम्यादीनां विधेयतयान्वये च तच्छब्दयोगादीनां तन्त्रतया तत्र तदभावात् कथं तदापादानमिति वाच्यम् । सति तात्पर्ये, 'प्रथमो भक्तः, 'पण्डितो ब्राह्मणः, इत्यादावुदेश्यविधेयभावेन बुद्धेरानुभविकतया यच्छब्दयोगादीनां प्रायिकत्वात् । तादृशशाब्दबोधे असमस्तपदजन्योपस्थितेहेतुता तु न । 'दामोदरः पूज्यो, 'राजपुरुषः सुन्दर, इत्यादितस्तथा बोधानुपपत्तेस्तत्र च प्राथम्यविशिष्टं भक्षणान्तरमेव विधीयते शब्दवृत्त्या । ततश्च प्राप्ताप्राप्तविवेकेन प्राथम्यविधिः पर्यवस्यतीति सिद्धान्तादिति भावः। व्यङ्गैरिति । तत्र हीज्याशेषभूतत्रित्वविशिष्टयत्किञ्चिदङ्गविधानम्, किंवा त्रित्वविशिष्टाशेषाङ्गविधानमिति संशये प्रकृताविज्याशेषेण पुरोडाशेन स्विष्टकृते हुतस्वादत्राऽपि शेषभूतत्रित्वविशिष्टाऽङ्गैरेव स्विष्टकृद्वचनं युक्तमिति पूर्वपक्षे, शेषभूतानि कानिचिदङ्गान्यनूद्य त्रित्वविधाने एकप्रसरताभङ्गापत्तिस्तस्मात् कल्पसूत्रोक्तत्रित्वविशिष्टाङ्गान्तरविधानमिति निर्णीतं दशमाध्यायस्य तृतीये पादे इत्यर्थः । कल्पसूत्रो. तानि हृदयाघेकादशाङ्गानि तु हृदयम् १, जिह्वा २, वक्षो ३, यकृत् ४, वृक्णौ ५। ६, परीक्षा *अत एव*-समासे एकार्थीभावस्वीकारादेव । *तृतीये-तृतीयाध्याये । तत्र हि 'वषट्कर्तुः प्रथमो भक्षः' इति वाक्येन वषटकर्ता होता तस्य भक्षणमृत्विजो हविः शेष भक्षयतीति वाक्यात्प्राप्तमिति तदनुवादेनाप्राप्तम्प्राथम्यमनेन विधीयत इति पूर्वपक्षे 'प्रथमभक्षा इत्यस्य समस्तपदत्वेन यदि प्राथम्यविधायकत्वं स्यात्तदा यो भक्षः स प्रथम इत्येवं विच्छिन्नान्वयो वाच्यः, स न सम्भवति, समासानुपपत्तेः, यथा पण्डितो ब्राह्मण इत्यस्माद्यः, पण्डितः स ब्राह्मण इतिबोधो भवति । तथा च पण्डितबाह्मण इति शब्दान्न भवति, यदि तथा कल्प्यते, तदा यच्छब्दसापेक्षत्वादुद्देश्यविधे. ययोर्न सामर्थ्येन समासानुरूपपर्यन्तः स्यात् । एवं च प्राथम्यविशिष्टभक्षणविधानमेवा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy