________________
समासशक्तिनिर्णयः।
२६९
स्विष्टकृतं यजति" इत्यत्राङ्गानुवादेन त्रित्व विधानं न युक्तम् । एकप्र. सरताभङ्गापत्तेरिति दशमे च निरूपितं सङ्गच्छते । सङ्गच्छते चाऽरुणाधिकरणारम्भः।
अन्यथा “अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यत्रारुणपदवदितरयोरपि एकाब्दत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् , क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद्
दर्पणः सव्यं दोः ७, उभे पार्वे ८ । ९, दक्षिणा श्रोणी १०, गुदम् ११, इति । तत्र त्रीणिदक्षिणोंऽसः, सव्या श्रोणी, गुदं तृतीयमिति । - नन्वेकप्रसरत्वं न विशिष्टाऽर्थोपस्थितिजनकत्वं, किन्तु समासघटकपदयोरुहेश्यविधेयभावेनाऽन्वयाऽबोधकत्वमिति व्युत्पत्तिस्तगङ्गापत्तेरिति तदर्थो, न तु विशिष्टार्थोपस्थितिजनकत्वभङ्गापत्तिरिति । तादृशव्युत्पत्तिशरीरं तु समासघटकपदार्थनिष्ठवि. धेयतानिरूपितोद्देश्यतासम्बन्धेन शाब्दबुद्धिं प्रति समासघटकपदजन्योपस्थितिः प्रतिबन्धिकेति। ___ नच तादृशप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवमिति वाच्यम् । सर्वत्र विशिष्टशक्तिकल्पनापेक्षया क्वचित् प्रतिबध्यप्रतिबन्धभावकल्पने एव लाघवात् ।
वस्तुतस्तु यत्रोद्देश्यविधेयभावेनान्वयबोधस्तत्पदार्थोपस्थितिसमवहिततदानुपू. वीविरहादेव तथान्वयासम्भवानोक्तप्रतिबध्यप्रतिकन्धककल्पनाऽपि । एकप्रसरता तु प्रथमपदार्थाऽन्वितभक्षविशेष्यकबोधाऽनुभव एवेति नोक्तयुक्त्या मीमांसकैर्विशिष्टशक्तिरभ्युपेयेत्यत आह-*सङ्गच्छते चेति । *वाक्याद् भेदेति । नच तस्य वाक्य.
परीक्षा नेन क्रियत इति सिद्धान्तितम् । *एकप्रसरतेति। सा च विशिष्टार्थोपस्थितिजनकत्वरूपा । *सा भज्येत* । उद्देश्यस्य पृथगुपस्थितेस्तथान्वयबोधे नियामकता भज्येत । *दशमे*-दशमाध्याये। तत्र हि-इज्याशेषभूतत्रित्वविशिष्टं तेषां यत् किञ्चिदङ्गविधानं किम्वा त्रित्वविशिष्टाशेषाङ्गविधानमिति संशये प्रकृताविज्याविशेषेण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि शेषभूतत्रित्वविशिष्टाङ्रेव स्विष्टकृद्धवनं युक्तम् । 'अङ्गैः स्विष्टकृतं यजति' इत्यत्र पशौ चोदकप्राप्तः स्विष्टकृत्प्रधानहविर्यो हृदयादिभ्य एकादशभ्योऽपि कर्त्तव्यत्वेन प्राप्त इति अङ्गैरिति वचनमङ्गानुवादेन त्रित्वविधानार्थमित्याशयके पूर्वपक्षे-एकहीदं समासपदं तत्सर्वमुद्देशकमुद्देश्यबोधकम् उपादायकम्-विधेयबोधकम् । यद्युत्तरार्द्धमुद्दिश्य पूर्वार्द्धस्य विधेयता स्यात्तदा प्रसर. भेदात्सामर्थ्य विधानात्समासो न स्यादिति, त्रित्वविशिष्टाङ्गान्तरविधिरिति सिद्धान्तितम् । तच्चैकार्थीभावानभ्युपगमेऽसङ्गतमेव स्यादित्युक्तम् । एकादशाङ्गानि कल्पसूत्रोक्तानि बोध्यानि । हृदयम् , १ जिह्वा २ वक्षः ३, यकृत् ४, वृक्को ६, सव्यं दोः ७ उभये पावें ९, दक्षिणाश्रोणिः १९, गुदम् ११ इति, एकप्रसरसत्वोपपत्तये च समासघटकपदार्थनिष्ठविधेयतानिरूपितोद्देश्यतासम्बन्धेन शाब्दबोधे समासघटकपदजन्योपस्थितिमङ्गीकृतेनैकार्थीभावेनैव निर्वाहात् । यत्र तु "सोऽष्णीषा ऋत्विजः