________________
.
.
दर्पणपरीक्षासहिते भूषणसारेभेदशङ्काया असम्भवादिति प्रपञ्चितं भूषणे । तस्मात् समासशक्तिपक्षो जैमिनीयरवश्या पेय इत्यास्तां विस्तरः॥ ३४॥ _ राजपुरुष इत्यादौ राजा चाऽसौ पुरुषश्चेत्येव विग्रहः । चित्रगु. रित्यादौ च चित्राणां गवामयमित्येव समानार्थत्वानुरोधात् । यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति “शेषो बहुव्रीहिः” (पा० स०२।२।२३) इति सूत्राल्लभ्यते इति प्रथमान्तपक्षे वाक्यं, चित्रा गावो यस्येत्येवं
दर्पणः भेदेन प्रकरणे निवेशोऽपि सम्भवति । अमूर्तत्वेन क्रियाभिः कारकत्वेन द्रव्यैः सममपि सम्बन्धासम्भवात्। नच तृतीयया ज्योतिष्टोमकरणीभूतप्राकरणिकद्रव्याण्यनूद्य यत् कर्त्तव्यं तदारुण्यगुणकेनेति परिच्छेदकत्वेन तदन्वयो नासम्भावित इति वाच्यम् । तथा सति शक्तिः कारकमिति सिद्धान्तभङ्गापत्तेरित्यपि बोध्यम् । उपसंहरति-*तस्मा. दिति । जैमिनीयैरिति वदता नैयायिकमतस्य सयुक्तिकत्वं ध्वन्यते ॥ ३४॥ ___ *समानार्थत्वाऽनुरोधादिति । समानार्थत्वं च व्याससमासयोः समानविशेष्य. प्रकारकबोधजनकत्वम् । तदनुरोधादित्यर्थः । उक्तविग्रहवाक्याऽन्तर्गतराजशब्दस्य सम्बन्धिनि लाक्षणिकत्वान्न विग्रहत्वक्षतिः । सम्बन्धार्थकषष्ठयन्तस्य तु सम्बन्धप्रकारकबोधजनकत्वान्न विग्रहत्वमेवं चित्रा गावो यस्येत्यादेरपीत्याशयं प्रकाशयति-*य. धपीत्यादि, मीमांसका इत्यन्तेन । *सूत्राल्लभ्यते इति । तेन हि "शेषो बहुव्रीहिः" (पा० सू० २।२।२३ ) इत्यधिकारात् प्रथमात्रिकस्य "द्वितीयाश्रित" इत्यादिनाs. नुक्तस्य समासो विधीयते । यद्यपि “विशेषणं विशेष्येण” (पा० सू० २।११९७) इत्यादिना तस्याऽपि समास उक्त एव, तथापि नाऽसौ प्रथमाशब्देनोल्लिखित इति तस्त्रिकस्य शेषत्वमविकलमिति भावः ।
परीक्षा प्रचरन्ति" इति वाक्येन उष्णीषे प्राप्तेऽपि “लोहितोष्णिषा ऋत्विजः प्रचरन्ति इति श्रूयते, तत्रापि लोहितोष्णिषा इति समासदर्शनेन लोहितोष्णिषविधानमेव शाब्द. न्यायेन । प्राप्ताप्राप्तविवेकेन तु लौहित्यविधेयकोष्णिषोद्देश्यको मानसो बोधः । एवं मीमांसकैरवश्यं विशिष्टशक्तिवादः स्वीकार्य इत्यत्र साधकोत्तरमाह-*सङ्गच्छत इति। ___ *अरुणपदवदिति । इदमरुणादिपदानागुणबोधकत्वमित्यभिप्रायेण । *एक. त्वादिगुणमात्रेति । एकहायनसम्बन्धमात्रस्य पिङ्गाक्षिसम्बन्धस्य वेत्यर्थः। प्रधानषष्टयर्थे समासविधानादित्यर्थः। उपसंहरति-*तस्मादिति ॥३४॥
मीमांसकविशेषमतं द्वेषयितुं तन्मतेऽनुवदति-*राजपुरुष इत्यादिना*। *समा. नार्थकत्वानुरोधादिति*। समानार्थकार्थकत्वं च व्याससमासयोः समानविशेषप्रकारकबोधजनकत्वं तदनुरोधादित्यर्थः । 'राज्ञः पुरुष' इति न विग्रहः, सम्बन्धार्थकषष्ठयन्तस्य राजसम्बन्धप्रकारबोधजनकत्म्, समासस्य तु सम्बन्धिप्रकारकबोधजनकत्वमिति । समानार्थकत्वाभावस्य सत्वात् , किन्तु राजा चासौ पुरुषश्चेत्यस्यैव, अत्र राजेत्यस्य राजसम्बन्धिनि लक्षणया राजसम्बन्धिबोधकत्वात् । एवं चित्रा गावो यस्येत्यस्य गोविशेष्यकबोधजनकतया न विग्रहत्वम् , किन्तु चित्राणां गवामयमित्येव समाससमानार्थकविग्रहवाक्यमिति तदाशयः ।